अव्याप्यवृत्तिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अव्याप्यवृत्तिः, त्रि, (अव्याप्य सर्व्वावच्छेदमप्राप्य वृत्तिर्यस्य ।) किञ्चिदवच्छिन्नवृत्तिः । (“अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” । इति भाषापरिच्छेदः ।) स्वसमानाधिकरणाभावप्रतियोगीति यावत् । दै- शिककालिकभेदेन स द्विविधः । तत्पर्य्यायः । प्रादेशिकः २ । आत्मनो विशेषगुणाः । बुद्धिः १ सुखं २ दुःखं ३ इच्छा-४ द्वेषः ५ यत्नः ६ धर्म्मः ७ अधर्म्मः ८ भावनाख्यसंस्कारः ९ आकाशस्य वि- शेषगुणः शब्दः १० । सामान्यगुणौ संयोग ११ विभागश्च १२ । एते सर्व्वे अव्याप्यवृत्तयः स्युः । इति न्यायभाषा ॥
