अशक्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशक्तम्, त्रि, (न शक्तः । नञ्तत्पुरुषः ।) शक्तिरहितं । असमर्थं यथा । मनुः । “बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथा पिता । भ्राताशक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः” ॥ इति दायतत्त्वम् ॥ “उपवासेष्वशक्तानां नक्तं भोजनमिष्यते” । इति तिथ्यादितत्त्वम् ॥
