अशरीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशरीर¦ त्रि॰ नास्ति शरीरं तदभिमानो वा यस्य।
“प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके। नेतिनेतिस्वरूपत्वादश-रीरो भवत्ययम्” इत्युक्तलक्षणे सकलनिषेधरूपे

१ परमांत्मनि,

२ शरीराभिमानशून्ये जीवन्मुक्ते
“अशरीरं वा वसन्तंप्रियाप्रिवे न स्पृशतः” इति श्रुतिः।

३ देहशून्ये

४ मीमां-सकोक्ते देवे

५ ईश्वरे च परमात्मस्वरूपत्वात् ईश्वरस्याशरी-रत्वम्
“तदैक्षत बहु स्यां प्रजायेति श्रुत्या तस्वेक्षितृत्वं यदुक्तंतदसङ्गतं शरीरं विना ज्ञानानुपपत्ते रित्याशङ्कापूर्ब्बकंशा॰ भा॰ तत् समर्थितं यथा
“प्रागुत्पत्तेर्ब्रह्मणः शरी-रादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवत-रति सवितृप्रकाशवत् ब्रह्मणोज्ञानस्वरूपनित्यत्वेन ज्ञान-साधनापेक्षानुपपत्तेः। अपि च अविद्यादिमतः संसारिणःशरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् न ज्ञानप्रतिबन्धकारणर-हितस्येश्वरस्य। मन्त्रौ चैतावीश्वरस्य शरीराद्यनपेक्षतामना-वरणज्ञानतां च दर्शयतः।
“न तस्य कार्य्यं करणञ्च विद्यते न[Page0475-a+ 38] तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभा-विकी ज्ञानबलक्रिया चेति”
“अपाणिपादोजवनो ग्रहीतापश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति-वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति” च। ननु नास्तितव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी।
“नान्योऽ-तोऽस्ति द्रष्टोत विज्ञातेति” श्रुतेः तत्र किमिदमुच्यते संसारिणःशरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति। अत्रोच्यते सत्यंनेश्वरादन्यः संसारी तथापि देहादिसंघातोपाधिसंबन्धइष्यतएव घटकरकगिरिगुहाद्युपाधिसंवन्ध इव व्योम्नः,तत्कृतशब्दप्रत्ययव्यवहारा लोकस्य दृष्टाश्च, घटच्छिद्रंकरकच्छिद्रमित्यादिराकाशाव्यतिरेकेऽपि तत्कृता चाकाशेघटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा तथेहापि देहादिसंघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः। दृश्यते चात्मन एव सतोदेहादिसंघातेऽनात्मन्यात्माभिनिवेशो-मिथ्याबुद्धिमात्रेण सति चैवं संसारित्वे देहाद्यपेक्ष-मीक्षितृत्वमुपपन्न’ संसारिणः” भा॰। जीवस्यापि अवास्त्रविकंसशरीरत्वं तदपि तत्रैव व्यवस्थापितं यथा
“शरीरे पति-तेऽशरीरत्वं स्यान्न जीवत इति चेत् न सशरीरत्वस्यमिथ्याज्ञाननिमित्तत्वात्। नह्यात्मनः शरीरात्माभि-मानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वंशक्यं कल्पयितुम् नित्यमशरीरत्वम् अकर्मनिमित्तत्वा-दिति चावोचामः। तत्कृतधर्माधर्मनिमित्तं सशरीर-त्वमिति चेत् शरीरसस्वन्धस्यासिद्धत्वात् धर्मा-धर्मयोरात्मकृतत्वासिद्धेः। शरीरसम्बन्धस्य धर्माधर्मयो-स्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात्। अन्धपरम्परैवैषाऽनादित्वकल्पना क्रियासमवायाभावाच्चात्मनः कर्त्तृ-त्वानुपपत्तेः। सन्निधिमात्रेण राजप्रभृतीनां दृष्टं कर्त्तृ-त्वमिति चेन्न धनदानाद्युपार्जितभृत्यसम्बन्धत्वात् तेषांकर्त्तृत्वोपपत्तेः। नह्यात्मनोधनदानादिवच्छरीरादिभिःस्वस्वामिसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् मिथ्या-भिमानस्तु प्रत्यक्षः सम्बन्धहेतुः” शा॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशरीर¦ mfn. (-रः-रा-रं) Bodiless, incorporeal m. (-रः) A name of KA4MA or love. E. अ neg. शरीर body.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशरीर [aśarīra], a. Bodiless, incorporeal.

रः The Supreme Being (परमात्मन्), Brahman.

(In Mīmāṁsā) A god or deity in general.

Cupid, the god of love चेतांसि चिन्ताभिरिवाशरीरः Ki.17.1; Śi.9.61.

An ascetic who has renounced all worldly connections; ˚त्वम्, ˚ता absolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशरीर/ अ-शरीर mf( आ)n. bodiless , incorporeal AitBr. S3Br. xiv , etc.

अशरीर/ अ-शरीर mf( आ)n. not coming from a visible body (as a voice) R. iv , 63 , 6 Katha1s.

अशरीर/ अ-शरीर m. N. of काम, S3is3. ix , 61

अशरीर/ अ-शरीर n. (in rhetoric) absence of the verb in a sentence.

"https://sa.wiktionary.org/w/index.php?title=अशरीर&oldid=489489" इत्यस्माद् प्रतिप्राप्तम्