सामग्री पर जाएँ

अशेषम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशेषम्, त्रि, (नास्ति शेषो यस्येति ।) शेषरहितं । निःशेषं ॥ सर्व्वं । इत्यमरः ॥ (“स्थानं प्राप्स्याम्यशेषाणां जगतामपि पूजितम्” ॥ “अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः” ॥ इति च विष्णुपुराणम् ॥ अशेषेण । यथा, -- “अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः” । इति कुमारे । “वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः” ॥ इति गीतायाम् ॥)

"https://sa.wiktionary.org/w/index.php?title=अशेषम्&oldid=114327" इत्यस्माद् प्रतिप्राप्तम्