अशोकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोकः, पुं, (नास्ति शोको यस्मात् ।) स्वनाम- ख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः । शोकनाशः २ विशोकः ३ वञ्जुलद्रुमः ४ वञ्जलः ५ मधुपुष्पः ६ अपशोकः ७ कङ्केल्लिः ८ केलिकः ९ रक्तपल्लवः १० चित्रः ११ विचित्रः १२ कर्णपूरः १३ सुभगः १४ दोहली १५ ताम्रपल्लवः १६ रोगितरुः १७ हेमपुष्पः १८ रामा १९ वामाङ्घ्रिघातनः २० पिण्डीपुष्पः २१ नटः २२ पल्लवद्रुः २३ । अस्य- गुणाः शीतलत्वं । हृद्यत्वं । पित्तदाहश्रमापहत्वं । गुल्मशूलोदराध्माननाशित्वं । कृमिकारकत्वञ्च । इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः । “अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपप्लवः । कङ्केल्लिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥ अशोकः शीतलस्तिक्तो ग्राही वर्य्यः कषायकः । दोषापचीतृषादाहकृमिशोषविषास्रजित्” ॥ इति भावप्रकाशः ॥ अस्य कलिकाभक्षणविधिरशीकाष्टमीशब्दे द्र- ष्टव्यः ॥ (योषितां सनूपुरचरणप्रहारेण अशो- कानां पुष्पोद्गमो भवतीति कविसमयप्रसिद्धिः । यदुक्तम् । “पादाघातादशोकं विकसति वकुलं योषिता- मास्यमद्यैः” । इति साहित्यदर्पणे । अपरञ्च । “पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति वकुलो मुखशीधुसिक्तः” । अपरञ्च । “सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत्” ॥ कुमारसम्भवे ऽपि । “असूत सद्यः कुसुमान्यशोकः” । इति ॥ “कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति” । इति रघुवंशे । “अशोकवल्कलक्वाथं शृतं दुग्धं सुशीतलं । यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनं’ ॥” इति वैद्यकचक्रपाणिसंग्रहः ॥ “अशोकवल्कलप्रस्थं तोयाढके विपाचितं । तेन पादावशेषेण जीरकेण तथैव च ॥ घृतप्रस्थं पचेदेतत्प्रक्षिप्य च तथापरं । तण्डुलाम्बून्यजाक्षीरं प्रस्थं प्रस्थं पृथक् पृथक् ॥ केशराजरसस्यापि प्रस्थमेकं भिषग्वरः । जीवनीयैः पियालैश्च परूषसरलाञ्जनैः ॥ यष्ट्याह्वाशोकमूलञ्च मृद्वीका च शतावरी । तण्डुलीयकमूलञ्च कल्कैरेतैः पलार्द्धकैः ॥ शर्करायाः पलान्यष्टौ गर्भदन्त्वाशुचूर्णितं । पुष्यायोगेन तत्पीतं निहन्यात् सर्व्वदोषजं ॥ श्वेतं कृष्णं तथा नीलं प्रदरं हन्ति दुस्तरं । कुक्षिशूलं योनिशूलं पृष्ठशूलञ्च दारुणं ॥ मन्दाग्निमरुचिं पाण्डुं कृशतां श्वासकासिनां । अशोकघृतमेतत्तु विख्यातं स्त्रीगदेषु च” ॥ * ॥ अशोकघृतं ॥ * ॥ इति वैद्यकस्नेहमालिकायां ॥)
अशोकः, त्रि, (नास्ति शोकों यस्येति वाच्यलिङ्गः ।) शोकरहितः । यथा, “त्वामशोक हराभीष्ट मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥ इति तिथ्यादितत्त्वं ॥ (स्वनामख्यातो दशरथस्य मन्त्री । उक्तं रामायणे । “धृष्टिर्जयन्तो विजयः सिद्धार्थोऽप्यर्थसाधकः । अशोको धर्म्मपालश्च सुमन्त्रश्चाष्टमोऽभवत्” ॥ स्वनामख्यातो नृपतिश्च, यथा भारते । “अशोको नाम राजाभून्महावीर्य्योऽपराजितः । तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः” ॥
