सामग्री पर जाएँ

अशोकषष्ठी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशोकषष्ठी, स्त्री, (अशोका शोकादिरहिता या षष्ठी ।) चैत्रस्य शुक्ला षष्ठी । तस्यां षष्ठीपूजा यथा, “चैत्रे मास्यसिते पक्षे षष्ठ्यां षष्ठीं समर्च्चयेत् । सुखाय पुत्त्रलाभाय शुक्लपक्षे तथैव च” ॥ इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥ ० ॥ “प्रसूत्या द्वादशे मासि सम्पूज्यापत्यवृद्धये । सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥ वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता । आषाढे कार्दमी ज्ञेया श्रावणे लुण्ठनी मता ॥ भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा । नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी ॥ पौषे मास्यन्नरूपा च शीतला तपसि स्मृता ॥ गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकीर्त्तिता” ॥ इति स्कन्दपुराणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशोकषष्ठी¦ स्त्री कर्म्म॰। चैत्रोभयषष्ठ्याम् तत्र षष्ठीदेवीपूजनविधानात्तथात्वम्,
“चैत्रे मास्यसिते पक्षे षष्ठ्यां षष्ठीं प्रपू-जयेत्। सुखाय पुत्रलाभाय शुक्लपक्षे तथैव च” उत्तरकामाख्यातन्त्रम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशोकषष्ठी/ अ-शोक--षष्ठी f. the sixth day in the first half of the month चैत्रBhavP. ii.

"https://sa.wiktionary.org/w/index.php?title=अशोकषष्ठी&oldid=489534" इत्यस्माद् प्रतिप्राप्तम्