सामग्री पर जाएँ

अशोकाष्टमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशोकाष्टमी, स्त्री, (न विद्यते शोको यस्यां सा । एवम्भूता अष्टमी ।) चैत्रमासीयशुक्लाष्टमी । त- त्राष्टसङ्ख्यकाशोककलिकायुक्तजलपानं कर्त्तव्यम् । यथा, अथाशोकाष्टमी स्कान्दे । “मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीं । पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि” ॥ अशोकाख्येत्युपादानात्तिथिमात्रेऽपि तत्पानं । फलन्तु मन्त्रलिङ्गात् शोकराहित्यमवगन्तव्यं । लौहित्यवारिणि ब्रह्मपुत्त्राख्यनदजले । पुनर्वसु- योगे तु फलाधिक्यं । आह लिङ्गगरुडपुराणयोः । “अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः” ॥ पानमन्त्रस्तु । “त्वामशोक हराभीष्ट मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥ स्त्रीशूद्रकर्त्तृकपानेऽपि प्रागुक्तयुक्तेः स्वयं मन्त्रः पठनीयः । स्त्रीपक्षे ऊहोऽपि नास्ति विवृतमेका- दशीतत्त्वे । अशोकपानन्तु पञ्चमार्द्धप्रहरव्यापि- न्यामष्टम्यां भ्रातृद्वितीयोक्तवत् । इति तिथ्यादि- तत्त्वं ॥ * ॥ अपि च । अत्र स्रोतोजले बुधवारे पुनर्व्वसुनक्षत्रयुक्तशुक्लाष्टम्यां वाजपेययज्ञजन्यफल- समफलप्राप्तिकामः स्नायात् । ब्रह्मपुत्रे तु सर्व्व- पापक्षयपूर्ब्बकतीर्थस्नानजन्यफलप्राप्तिकामः स्ना- यात् । स्नानेतिकर्त्तव्यतां विधाय । “ओ~, ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन । अमोघागर्भसंभूत पापं लौहित्य मे हर” ॥ इति पठित्वा स्नायात् । केवलशुक्लाष्टम्यां ब्रह्मपदगमनफलं । पञ्चमार्द्ध- प्रहरव्यापिन्यां पुनर्व्वसुयुक्तायां केवलायां वा शुक्ला- ष्टम्यां शोकरहितत्वकामः अष्टावशोककलिका अहं पिबामि इति सङ्कल्प्य, -- “त्वामशोक हराभीष्ट मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥ इति पठित्वा विष्णुपदजलमिश्रिता अशोक- कलिका अष्टौ पिबेत् । स्त्रीशूद्रानुपनीतैरपि मन्त्रः पठनीयः पौराणिकत्वात् । स्त्रीपक्षेलिङ्गोहो नान्ति प्रकृतेः समवेतार्थत्वात् । इति कृत्यतत्त्वं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशोकाष्टमी¦ स्त्री नास्ति शोकोयस्याः कर्म्म॰। चैत्रशुक्ला-ष्टम्यां, सा हि अशोककलिकापानादशोकदायिका। यथोक्तं हेमा॰ व्र॰ ख॰ लिङ्गपुरा॰।
“अशोककलिका-श्चाष्टौ ये पिबन्ति पुनर्वसौ। चैत्रेमासि सिताष्टम्यां न तेशोकमवाप्नुयुः। ” कूर्म्मपुरा॰। चैत्रेमासि सिता-ष्टम्यां बुधवारे पुनर्वसौ। अशोककुसुमैरुद्रमर्चयित्वाविधानतः। अशोकस्याष्ट कलिका मन्त्रेणीक्तेन भक्षयेत्। ” शोकं नैवाप्लुयान्मर्त्यः” अत्र बुधपुनर्वसुयोगः प्राशस्त्यर्थःहेमा॰।
“अशोककलिकापानमशोकतरुपूजनम्” शुक्ला-ष्टम्यां तु चैत्रस्य कृत्वा प्राप्नोति निर्वृतिमिति” लैङ्के चैत्र-शुक्लाष्टमीमात्रस्य निमित्ततोक्तेः। मन्त्रस्तु तत्रैव दृश्यः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशोकाष्टमी/ अशोका f. the eighth day in the first half of the month चैत्र.

"https://sa.wiktionary.org/w/index.php?title=अशोकाष्टमी&oldid=489537" इत्यस्माद् प्रतिप्राप्तम्