सामग्री पर जाएँ

अशौचम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशौचम्, क्ली, (शुचेः पवित्रताया भावः शौचं ततो तञ्- तत्पुरुषः ।) शुचित्वाभावः । स्मृतौ तु । वैदिककर्म्मा- नर्हत्वप्रयोजकीभूतसंस्कारविशेषः । यथा । वैदि- ककर्म्मानर्हत्वप्रयोजकसंस्कारविशेषरूपमशौचं । वैदिककर्म्मार्हत्वप्रयोजकसंस्काररूपं शौचं । न चाशौचाभाव एव शुद्धिर्नसंस्कारविशेष इति वाच्यं । अघानां यौगपद्येत्विति न वर्द्धयेदघानि इत्येताभ्यामशौचे पापपर्य्यायाघपदप्रदर्शनात् अशौचपदस्य यथांभावरूपत्वं । तथा, -- “देवाश्च पितरश्चैव पुत्त्रे जाते द्विजन्मनां । आयान्ति तस्मात्तदहः पुण्यं षष्ठञ्च सर्व्वदा” ॥ इत्यादित्यपुराणीयेन शौचे पुण्यपददर्शनात् शौचस्यांपि भावरूपता प्रतीयते । इति शुद्धि- तत्त्वं ॥ * ॥ मन्त्रदगुरुमरणे अशौचं यथा, -- “गृहीतो देवतामन्त्रः सावित्रीग्रहणं कृतं । यस्मात्तस्य त्रिरात्रन्तु ब्रह्मविद्याग्रहो यतः ॥ उपनीयाध्यापको यस्तस्मिन्नपि त्रिरात्रकं । वेदवेदाङ्गशास्त्राणां व्याख्यानं शिक्षितं यतः ॥ ज्ञानं प्रतिष्ठितं येन वेदाभ्यासो यतः कृतः । तस्मिन्मृते चैकरात्रं गुरौ शिष्ये तथैव च ॥” इति मत्स्यसूक्ते महातन्त्रे ३५ पटलः ॥ अपि च । “गुरावुपरते चैव त्र्यहाणि शिष्यसन्ततौ” । इति विज्ञानतन्त्रं ॥ * ॥ अन्यत् पूर्ब्बलिखितं । विहितकर्म्मविरोध्यदृष्टविशेषः । तदनेकविधं तत्र शुद्धितत्त्वोक्ताशौचानि संगृह्यन्ते ॥ अथ सपिण्डाद्यशौचं १ ॥ जनने मरणे च सप्तमपुरुषपर्य्यन्तं सम्पूर्णाशौचं । तच्च विप्रस्य दशाहः क्षत्रियस्य द्वादशाहः । वैश्यस्य पञ्चदशाहः । शूद्रस्य मासः ॥ (यथाह मनुः । “शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति” ॥) जनने मरणे च दशमपुरुषपर्य्यन्तं सर्व्वेषां वर्णानां त्र्यहः । चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी ॥ जनने मरणे च जन्मनामस्मृतिपर्य्यन्तं सर्व्ववर्णाना- मेकाहः ॥ जन्मनामस्मृतेरभावे स्नानमात्रं ॥ अशौचं प्रति कन्यायास्त्रिपुरुषं सापिण्डं ॥ माता- महमरणे सर्व्वेषां वर्णानां त्रिरात्रं ॥ मातृष्वस्रीय-पितृष्वस्रीय-मातुलपुत्त्र-भागिनेय- मरणे सर्व्ववर्णानां पक्षिणी ॥ पितामहभगिनीपुत्त्र -- पितामहीभगिनीपुत्त्र -- पि- तामहीभ्रातृपुत्त्ररूप-पितृबान्धवत्रयमरणे सर्व्वव- र्णानां पक्षिणी ॥ मातामहभगिनीपुत्त्र-मातामहीभगिनीपुत्त्र-मा- अतीतेऽशौचे सचेलस्नानेनास्पृश्यतानिवृत्तिः ॥ जननाशौचे सपिण्डानां अस्पृश्यता नास्ति ॥ पुत्त्रोत्पत्तौ स्नानात् पूर्ब्बं पितुर्विमातॄणाञ्चास्पृ- श्यत्वं ॥ सूतिकास्पर्शे पितुर्विमातॄणाञ्च सूतिकातुल्य- कालास्पृश्यत्वं । अन्येषां स्नानमात्रं ॥ कन्यापुत्रयोर्ज्जनने मातुर्दशरात्रमस्पृश्यत्वं ॥ कन्यापुत्रयोर्जनने शूद्रायास्त्रयोदशरात्रमस्पृश्यत्वं ॥ अथ क्षताशौचं ॥ ९ नाभेरूर्द्धमधोवा रुधिरस्रवे सन्ध्यावन्दनाद्यति- रिक्त्वकर्म्मण्येकाहः ॥ दन्तरक्तस्रवे सर्वत्र कर्म्मण्येकाहः ॥ अथ रजस्वलाशौचं ॥ १० तत्र प्रथमदिनावधि त्रिरात्रमशौचं ॥ त्रिरात्रात् परं सप्तदशाहपर्य्यन्तं रजोदर्शनेऽशौचाभावः ॥ अष्टादशाहे रजोदर्शने एकाहमशौचं ॥ ऊनविंशदिने रजोदर्शने द्व्यहाशौचं ॥ ऊनविंशतिदिनात् परं रजोदर्शने त्रिरात्राशौचं ॥ रजस्वला चतुर्थेऽह्नि भर्तृसेवनादिलौकिककर्म्मणि शुद्धा । पञ्चमेऽहनि दैवपैत्रकर्म्मणोः शुद्धा ॥ (“शुद्धाभर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः । दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुध्यति” ॥ इति शुद्धितत्त्वे ।) रजस्वलाया अशौचमध्ये सूतिकास्पर्शे अन्त्यज- जातिस्पर्शे च त्रिरात्रोपवासेन शुद्धिः ॥ उप- वासस्तु अशौचात् परं करणीयः ॥ भर्तृपूरकपिण्डदानकाले यदि रजस्वला भवति तदा वस्त्रं त्यक्त्वा पुनः स्नात्वा पूरकं दद्यात् किन्तु शुद्ध्युत्तराशौचदिनासत्त्वएवायं विधिः । तत्सत्त्वे तु शुद्धया भूत्वा देयं ॥ आब्दिकश्राद्धकालेऽपुत्त्रभार्य्या यदि रजस्वला भवति तदा पञ्चमेऽहनि तच्छ्राद्धं कुर्य्यात् ॥ * ॥ (अभिषिक्तक्षत्रियाणां चान्द्रायणादिव्रतकारिणां गवामयनादियागप्रवृत्तानाञ्च सपिण्डमरणादाव- शौचाभावएव । उक्तञ्च मनुना । “न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् । ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥ विष्णुणाप्युक्तम् । “अशौचं न राज्ञां राजकर्म्मणि, न व्रतिनां व्रते, न सत्रिणां सत्रे” । इति ॥) इत्यशौचव्यवस्था समाप्ता ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अशौचम् [aśaucam], 1 Impurity, dirtiness, foulness; Pt.1.195.

Legal impurity or contamination; defilement caused either by child-birth (called जननाशौच) or by the death of some relation (called मृताशौच); it lasts for 1 days; during the मृताशौच a person defiled by it is not to touch anybody else, or to eat with others in the 'same row or to do any sacred action; अहोरात्रमुपासी- रन्नशौचं बान्धवैः सह Ms.11.183. -Comp. -अन्तः end of defilement. -संकरः blending or coming together of two or more defilements.

"https://sa.wiktionary.org/w/index.php?title=अशौचम्&oldid=212007" इत्यस्माद् प्रतिप्राप्तम्