सामग्री पर जाएँ

अश्मभेदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्मभेदः, पुं, (अश्मनो भेदो भवत्यस्मात् ।) पाषाण- भेदी वृक्षः । इति रत्नमाला ॥ (अस्य गुणाः । “अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः । भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः ॥ योनिरोगान् प्रमेहांश्च प्लीहशूलब्रणानि च” । इति भावप्रकाशः ॥ “एरण्डो विजपूरश्च गोक्षुरं वृहतीद्वयं । अश्मभेदस्तथाविल्व एतन्मूलः कृतः शृतः ॥ एरण्डतैलहिङ्गाढ्यो यवक्षारः ससैन्धवः । स्तनकण्ठकटीमेढ्रहृदयोत्थव्यथां जयेत्” ॥ इति शार्ङ्गधरः ॥)

"https://sa.wiktionary.org/w/index.php?title=अश्मभेदः&oldid=114371" इत्यस्माद् प्रतिप्राप्तम्