अश्राद्धेयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्राद्धेयः, पुं, (न श्राद्धेयः । नञ्समासः ।) श्राद्धा- नर्ह्यः । श्राद्धायोग्यब्राह्मणः । यथा । अत्रिका- श्यपौ, -- “पितुर्गेहे च या कन्या रजः पश्यत्यसंस्कता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥ यस्तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्ब्बलः । अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिं” ॥ इत्युद्वाहतत्त्वं ॥
