अश्रुद्ध
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्रुद्धम्, त्रि, (न शुद्धम् । नञ्तत्पुरुषः ।) अपवित्र । अकृतशोधनं । अशौचयुक्तं । यथा । शङ्खः, -- “ततः श्राद्धमशुद्धौ तु कुर्य्यादेकादशे तथा । कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” ॥ इति । “शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयीः । दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुद्ध्यति” ॥ इति च शुद्धितत्त्वं ॥ (वर्णाद्यशुद्धियुक्तः ।)
