सामग्री पर जाएँ

अश्रुभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्रुभम्, क्ली, (न शुभम् । नञ्तत्पुरुषः । नास्ति- शुभं यस्येति समासे वाच्यलिङ्ग एव ।) पापं । इति हेमचन्द्रः ॥ अमङ्गलं । (“न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम्” । मा च वोऽस्त्वशुभं किञ्चित्सर्व्वथा पण्डुनन्दनाः” ॥ इति च भारते ॥) तद्युक्ते त्रि । यथा, -- “सर्व्वाशुभानां परिमोक्षकारि सम्पूजनं देववरस्य विष्णोः” । इति ज्योतिस्तत्त्वं ॥ अपि च । मदनपारिजात- धृतं । “अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणषूजनं । दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः” ॥ इति तिथ्यादितत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अश्रुभ&oldid=114320" इत्यस्माद् प्रतिप्राप्तम्