अश्वग्रीवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्वग्रीवः, पुं, (अश्वस्य ग्रीवाइव ग्रीवा यस्य ।) विष्णुद्वेष्टासुरविशेषः । इति हेमचन्द्रः ॥ (यथाह भारते । “अश्वग्रीवश्च सूक्षश्च तुहुण्डश्च महाबलः” ॥ तत्रैव च । “अश्वग्रीव इति ख्यातः पृथिव्यां सोऽभवन्नृपः” ॥ स्वनामख्यातो वृष्णिवंशीयो नृपतिः सहि चित्र- कस्य पुत्त्रो वृष्णिनरपतेः पौत्त्रः । यथा हरि- वंशे, -- “चित्रकस्याभवन् पुत्त्राः पृथुर्विप्रथुरेव च । अश्वग्रीवोऽश्ववाहुश्व सुपार्श्वकगवेषणौ” ॥)
