अश्वतरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्वतरः, पुं, स्त्री, (तनुरश्वः । वत्सोक्षाश्वर्षभेभ्यश्च तनुत्व इति ष्टरच् । अश्वेनाश्वायामुत्कन्नोऽश्वः । अश्वत्वं च जातिः । तत्सहचरितस्योक्तधर्म्मस्य तनुत्वं अन्यपितृकत्वात् ।) अश्वायां गर्द्दभेन जातः पशुविशेषः । इति स्मृतिः । खचर इति भाषा । ॥ (“हयानश्वतरानुष्ट्रांस्तथैव सुरभेः सुतान्” । इति रामायणे ॥ “सकृद्दुष्टं हि यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भादश्वतरो यथा” ॥ इति पञ्चतन्त्रे ॥)
अश्वतरः, पुं, वेगसरः । नागराजविशेषः । इति मेदिनीं ॥ (“कम्बलाश्वतरौ चापि नागकालीयकस्तथा” । “ऐरावतो महापद्मः कम्बलाश्वतरावुभौ” ॥ इति च महाभारते ॥) गन्धर्व्वविशेषः । पुंवत्सः । इति धरणिः ॥
