अश्वमेधः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्वमेधः, पुं, (अश्वः मेध्यते हिंस्यते यत्र । मेध- हिंसने + घञ् ।) यज्ञविशेषः । इति जटाधरः ॥ यत्र लक्षणविशेषाक्रान्तमश्वं संप्रोक्ष्य कपाले जयपत्रं बद्ध्वा त्यजेत् तद्रक्षार्थं पुरुषविशेषं नियो जयेत् संवत्सरान्ते अश्वे आगते सति अथवा केनापि संबद्धे युद्धं कृत्वा तमानीय यथाविधि बधं कृत्वा तद्वपया होमः कर्त्तव्यः । कामनानु सारेणतत्फलं । मोक्षः ब्रह्महत्यापापक्षयः स्वर्गश्च । यथा । आपस्तम्बः । “राजा सार्व्वभौमः अश्वमेधेन यजेत नाप्यसार्व्व- भौमः” । इति ॥ प्रायश्चित्तात्मकाश्वमेधो यथा । विष्णुः । “अनुपातकिनस्त्वेते महापातकिनो यथा । अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा” ॥ अपि च । “अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे” । इति विष्णूक्ताश्वमेधस्य प्रायश्चित्तत्वम् । पापक्षय- स्वर्गोभयसाधकस्य तु तस्यापि न प्रायश्चित्तत्वम् । इति प्रायश्चित्ततत्त्वम् ॥ ० ॥ कलौ तस्य निषेधो यथा वृहन्नारदीये । “दीर्घकालं ब्रह्मचर्य्यं नरमेंधाश्वमेधकौ । महाप्रस्थानगमनं गोमेधञ्च तथा मखं ॥ इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनीषिणः” । इत्युद्वाहतत्त्वम् ॥ अन्यच्च । ब्रह्मपुराणम् । “नराश्वमेधौ मद्यञ्च कलौ वर्ज्या द्विजातिभिः” । इति तिथ्यादितत्त्वम् ॥ ० ॥ तत्फलजनककर्म्माणि यथा, -- “वैशाखे मासि यः कुर्य्यात् प्रपां माधवतुष्टये । दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः” ॥ इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥ अपि च ब्रह्माण्डे ॥ “स्नानन्तु भक्त्या गङ्गायां कर्तुकामस्य गच्छतः । पदे पदेऽश्वमेधस्य फलं मर्त्त्यस्य जायते” ॥ इति प्रायश्चित्ततत्त्वम् ॥
