अश्वमेधीयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्वमेधीयः, पुं, (अश्वमेधाय हितः । अश्वमेध + छ ।) अश्वमेधयज्ञीयाश्वः । तत्पर्य्यायः ययुः २ । इत्यमरः ॥ तस्य लक्षणम् । “कालाम्भोधरसङ्काशः स्वर्णवर्णमुखो बली । यस्य पार्श्वावुभावर्द्धचन्द्राकारौ सुशोभनौ ॥ पुच्छं विद्युत्प्रतीकाशमुदरं कुन्दसन्निभं । पादाश्चैव हरिद्वर्णाः कर्णौ सिन्दूरसन्निभौ ॥ ज्वलदग्निनिभा जिह्वा चक्षुषी भास्करोपमे । विराजितो रोमराज्या सानुलोमविलोमया ॥ विचित्रैर्विविधैर्वर्णैश्चित्रो रजतविन्दुभिः । यो वेगे वायुतुल्यः स्यादुच्चैरुच्चैःश्रवा यथा ॥ यस्य गात्रोद्भवो गन्धो गन्धर्ब्बमपि मोहयेत् । एवं लक्षणसंयुक्तो यज्ञीयः पशुरुच्यते ॥ अश्वस्य पालकश्चातिबलवान् पुत्त्र उच्यते । पुत्त्रतुल्यः सुहृद्वापि बहुविघ्नः क्रतूत्तमः” ॥ इति वाशिष्ठरामायणम् ॥
