अश्ववार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्ववारः, पुं, (अश्वं वारयतीति । अश्व + वृ + अण् ।) सादी । इति हेमचन्द्रः । घोडसओयार इति भाषा ॥ (“परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः” । इति माघे ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्ववार¦ पु॰ अशं वारयति चु॰ वृ--अण् उप॰ स॰। हयनिवारके सादिनि
“दुःखेन निश्चक्रमुरश्ववाराः” माघः। ण्वुल्। अश्ववारकः तत्रैव। ल्यु अश्ववारणोऽप्यत्र। अश्ववारलक्षणादिकमुक्तमश्वशास्त्रे यथा
“ब्राह्मणान् श-क्तिदानेन साम्ना चैव तु क्षत्रियान्। वैश्यं दण्डेन शब्देनशूद्रं दण्डेन वाहयेत्। प्रत्यूषे वाहयेद्विप्रं क्षत्रियं प्रहरेगते। वैश्यं संन्ध्यागते काले शूद्रं रात्रौ च वाहयेत्। सत्वं च त्रिविधं प्रोक्तमुत्तमाधममध्यमम्। उत्तमं चोपशा-मेन साम्ना दण्डेन मध्यमम्। शब्दाङ्गेन च दण्डेन वाहयेदधमम्बुधः। सहजे निर्मले वाहे तैलदुग्धस्य रूपवान्। शालिश्च द्विविधा प्रोक्ता बलदौर्वल्पसम्भवा। बलिष्ठो दुर्बल-त्वेन दुर्बलोऽपि बलेन वा। छलेनोपाधिकायांश्च सत्वंज्ञात्वा च वाहयेत्। सार्द्रां सुकठिनां चैव पाषाणीदक-संयुताम्। तृणकाष्टसमायुक्तां रङ्गभूमि तु वर्ज्जयेत्। समांच विपुलां चैव किञ्चित्पांशुसमन्विताम्। एकान्ते विजनेरम्ये रङ्गभूभिं तु कारयेत्। स्थूलः क्रोधी च मूर्खश्चचित्तोत्सुकश्चलासनः। अस्थाने दण्डपाती योवाजी तस्यन सिध्यति। प्रचलति यस्य कटिरूर्द्ध्वबाहुर्दण्डपातः। न[Page0513-a+ 38] तस्य वाहनं वाजी दुर्लक्ष्यं वाजिवाहितम्। दृढासनोऽथतत्त्वज्ञो जितसुष्टिर्निरालसः। अविरागी स्थिरश्चापि षडेतेवाजिवाहकाः। चित्तं यो नैव जानाति तुरगस्य समा-सतः। न वहन्ति हयास्तस्य दण्डपातेन ताडिताः। ह्रेषितेवलिते भीते तथा चोन्मार्गगामिनि। कुपितोद्भ्रान्तचित्तेवा षट्सु दण्डं निपातयेत्। ह्रेषिते ताडयेन्मूर्द्धि जानुभ्यांवलिते तथा। क्रुद्धे उरसि हन्तव्यो भ्रान्तचित्ते तथोदरे। भीतं च ताडयेत्पश्चान्मुखे चोन्मार्गगामिनम्। ज्ञात्वा दोषंच रूपं च स्थानेष्वेतेषु ताडयेत्। अस्थानताडितोवाजीयावज्जीवं न सिध्यति। नो जहाति च तद्दोषं यावज्जीव-त्यसौ हयः। धाराः पञ्च प्रवक्ष्यामि मुनिभिर्य्याः प्रकीर्त्तिताः। प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता। तृतीया पूर्ण-कण्ठी तु चतुर्थी त्वरिता स्मृता। पञ्चमी चैव या धारानिरालम्बा प्रकीर्त्तिता। षष्ठी चैव तु या धारा श्रूयतेन तु दृश्यते। विक्रमा गतिधारा च चतुष्का पुलका मता। मुखपादसमायुक्ता पूर्णकण्ठी तु सा भवेत्। स्वेच्छयात्वरिता धारा ताडिता चैव पञ्चमी। षष्ठी चैव तु या धारास्वर्गलोकेषु गीयते। वल्गाश्च संप्रवक्ष्यामि मुनिभिः परि-कीर्त्तिताः। पुष्पवन्ती च गोकर्णी तूलोत्तुला तुला वृथा। नागखण्डी पुष्पधारी दुमुष्टी च रुतस्तनी। द्विहस्ती चैक-हस्ती च शुभगा शोभना मता। इत्येता द्वादश वल्गामुनिभिः परिकीर्त्तिताः”
“आरूढकर्णमध्ये तु मनोलक्षति वाजिनः” शनैस्तु वाहयेत्पूर्ब्बं पशुतुल्यं समादि-शेत्। न वक्रो न तथोत्तानो न कुब्जो नाप्ययोमुखः। न भवेत्स्तब्धगात्रस्तु स भवेदश्ववाहकः। स्थिरोरुःस्थिरपादश्च त्रिकोन्नतस्थिरासनः। दक्षिणादितुरङ्गस्यचासने तु दृढः सदा। अश्ववाराः समाख्याताः शेषास्तुभयदायकाः। ग्रीष्मादिषु न वर्त्तव्यमृतुषु त्रिषु वाह-नम्। हेमन्तादिषु वर्त्तव्यं सादिभिः शास्त्रवेदिभिः। प्रतिपत्सु त्रयोदश्यां पञ्चम्यां वा सिते दले। धृतिसिद्धा-तियोगेषु वासरे चन्द्रसूर्य्ययोः। मूलरोहिणीहस्तेषु पुष्पेचैवोत्तरासु च। एवंविधे दिने सादी वाहान् संवाहयेत्शुभे। रङ्गभूमौ च रेवन्तं स्थापयेत् पूजयेत्ततः। पुष्पैर्धूर्पःप्रदीपैस्तु चन्दनैः पायसैस्थथा। पक्कार्{??}H पज्ञ्चशब्दैश्चप्रातःशुचिसुवाससा। रक्ताम्बरधरोभूत्वा रक्तपुष्पधरस्तथा”।
“एकविंशतिवारांश्च ततः पर्य्याणयेद्धयम्। क्रोशमेकं तमारुह्यनयेच्छिक्षां शनैःशनैः। वल्गाग्रहश्च कर्त्तव्यः सव्यापसव्यमेवच। विक्रमा पुलका पूर्णकण्ठी च त्वरिता तथा। [Page0513-b+ 38] खलीनादौ प्रयोक्तव्या सादिना वाजिनां क्रमात्। नातिस्थूलं नातिकृशं न स्तब्धं नातिकर्कशम्। सप्ताङ्गुल-प्रमाणन्तु खलीनं कारयेद्बुधः। खलीनादिवु लोहेषुधारयेद्विक्रमादिषु। क्रमेणैव तुरङ्गाणां कटानि संप्रयो-जयेत्। खलीनादौ तु धारासु यदा सुशिक्षितो हयः। तदा कटेषु तं सादी भ्रामयेद्विक्रमादिभिः। शत-हस्तादिकां भूमिं सप्तहस्तावसानिकाम्। भ्रामयेद्वाजिनं सा-दी सव्यं चैवापसव्यकम्। मण्डलं चतुरस्रं च गोमूत्रं चार्द्ध-चन्द्रकम्। नागपाशं क्रमेणैव भ्रामयेत्कटपञ्चचकम्। एवमन्येषु लोहेषु त्रिष्वेव म्रामयेत्कटे। यएवं वाहयेद्-वाहं तस्य कष्टं न जायते। दद्याद्भयमभीतस्य भीतस्यापिहरेद्भयम्। रहस्यं सादिनामेतद्वाहनेऽस्मिन्निवेदितम्। पूर्वोक्तेषु च देशेषु षट्सु दोषेषु ताडयेत्। न जातुसादिनान्यस्मिन् काले दोषशतैरपि। दम्यमानस्यअश्वश्य यो दोषः सादिदोषतः। जायते ऽसौ निरा-कर्त्तुं सादिना नैव शक्यते। एवं शास्त्रविधानेन यःसादी वाहयेद्धयान्। हरयस्तस्य सिव्यन्ति भवन्ति फल-दायकाः। वाहनं यच्च दुष्टं च धूपलेपनमन्त्रकैः। तदहंसंप्रवक्ष्यामि मुनिभिः कीर्त्तितं यथा। अस्थिभिर्दशनैश्चैववृकाणां च यथा बुधैः। विषमक्षिकादंष्ट्राभिः धूमसंबद्धसर्पिषा। एलागुरुमदोसीरनागकेसरचन्दनैः। सर्ज्जिका-तैलसंयुक्तो धूपयेद्दुष्टवाजिनम्। विषलोहगदैलाभिस्तैला-ज्यदधिचन्दनैः। निःशेषदोषनाशाय धूप उक्तो हि वाजि-नाम्। विलिप्य गोमयैः प्रातर्न्निशीथे सर्वसन्धिषु। अष्टम्यांच विशेमेण दुष्टाः सिध्यन्ति घूपिताः। काशीशं चन्दत्रंकौतीसिद्धार्थमरिचानि च। सैन्धवं बडवामूत्रं गोमूत्रंकर्णजं मलम्। सुनिगुप्तानि पिष्टानि कणायाः सव-चानि च। अञ्जनं सर्वदुष्टानां देयं पर्वणि पर्वणि। अनेनाभ्यञ्जितो वाजी निर्वाणमधिगच्छति। कोपमोहंभयं त्यक्त्वा वश्यः स्यात्सादिनोभृशम्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्ववार¦ m. (-रः) A horseman. E. अश्व and वृञ् to nourish, अण् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्ववार/ अश्व--वार m. (= -वालSee. )Saccharum Spontaneum Pa1n2. 8-2 , 18 Comm. (See. आश्ववार.)
अश्ववार/ अश्व--वार m. a horseman R. S3is3. iii , 66 , etc.
अश्ववार/ अश्व--वार m. a groom L.
