सामग्री पर जाएँ

अश्ववित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्ववित्, [द्] पुं, (अश्वं अश्वविद्यां वेत्तीति । अश्व + विद् + क्विप् ।) नलराजः । इति त्रि- काण्डशेषः ॥ (नलस्य राज्ञोऽश्वविद्याज्ञता वर्णिता भारते । यथा । “बाहुकस्तमुवाचाथ देहि विद्यामिमां मम । मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ! ॥ ऋतुपर्णं ततो राजा बाहुकं कार्य्यगौरवात् । हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः ॥ यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परं । निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक” ॥ बाहुको बाहुकवेशधारी नलः ।)

"https://sa.wiktionary.org/w/index.php?title=अश्ववित्&oldid=114484" इत्यस्माद् प्रतिप्राप्तम्