अश्वारूढः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्वारूढः, पुं, (अश्व आरूढो येन ।) अश्वारोहः । घोटकोपरि कृतारोहणः । यथा । “अश्वारोहास्तु सादिनः” । इत्यमरः ॥ द्वे अश्वारूढे । अश्वमारो- हन्ति अश्वारोहाः ढात् षण् । सादयन्ति श्रम- यन्ति अश्वान् सादिनः ग्रहादित्वात् णिन् । इति तट्टीकायां भरतः ॥
