अश्विनीकुमारौ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्विनीकुमारौ, पुं, (अश्विन्या अश्वीभूतसंज्ञानाम- सूर्य्यपत्न्याः यमजौ कुमारौ ।) अश्विनीसुतौ । अश्वीभूतसंज्ञानामसूर्य्यपत्न्याः यमजपुत्त्रौ । तौ देवचिकित्सकौ । (यथा हरिवंशे, “विवस्वान् कश्यापाज्जज्ञे दाक्षायण्यामरिन्दम ! । तस्य भार्य्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः” ॥ “देवौ तस्यामजायेतामश्विनौ भिषजां वरौ” ।) नित्यद्विवचनान्तशब्दोऽयं ।
