अश्विनौ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्विनौ, पुं, (प्रशस्ता अश्वाः सन्ति ययोः । इनिः । यद्वा, अश्विन्याम् जातौ । सन्धिवेलेत्यणो नक्ष- त्रेम्यो बहुलमिति लुकि लुक्तद्वितलुकीति ङीपो लुक् ॥) अश्विनीकुमारौ । इत्यमरः ॥ (“त्वाष्ट्री तु सवितुर्भार्य्या वडवारूपधारिणी । असूयत महाभागा सान्तरीक्षेऽश्विनावुभौ” ॥ इति महाभारते । “किमश्विनौ सोमरसं पिपासू” । इति भट्टौ ।) (“अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ । दक्षस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितं ॥ प्रशीर्णा दशनाःपूष्णो नेत्रे नष्टे भगस्य च । वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ॥ चिकित्सितस्तु शीतांशुर्गृहीतो राजयक्ष्मणा । सोमान्निपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥ भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः । वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥ एतैश्चान्यैश्च बहुभिः कम्मभिर्भिषगुत्तमौ । बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनां ॥ ग्रहास्तोत्राणि मन्त्राणि तथान्यानि हवींषि च । धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥ प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते । सौत्रामण्याञ्च भगवानश्विभ्यां सह मोदते ॥ इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः । स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः ॥ अमरैरजरैस्तावद्विबुधैः साधिपैर्ध्रुवैः । पूज्येते प्रयतैरेवमश्विनौ भिषजाविति ॥” इति चरकः ॥ “श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततो देवा अश्विनावभिगम्योचुः । भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः । भवद्भ्यां यज्ञस्य शिरः सन्धातव्यं । तावूचतुरेवमस्त्विति । अथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् । ताभ्यां यज्ञम्य शिरः संहितमिति” ॥ इति सुश्रुतः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अश्विनौ पुं-द्वि।
अश्विनीकुमारौ
समानार्थक:स्वर्वैद्य,अश्विनीसुत,नासत्यौ,अश्विनौ,दस्रौ,आश्विनेयौ
1।1।51।2।2
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ। नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ॥
स्वामी : इन्द्रः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
