अष्टकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टकः, त्रि, (अष्टावध्यायाः परिमाणमस्य । अष्टन् + कन् ।) अष्टसंख्या । अष्ट एवाष्टकः स्वार्थे क- प्रत्ययः । अष्टसंख्याविशिष्टं यथा, -- “गङ्गाष्टकं पठति यः प्रयतः प्रभाते बाल्मीकिना विरचितं सुखदं मनुष्यः” । इति बाल्मीकीयगङ्गाष्टकं ॥ अपि च । “अच्युतं केशवं विष्णुं हरिं सत्यं जनार्द्दनं । हंसं नारायणञ्चैव एतन्नामाष्टकं शुभं” ॥ इति ब्रह्मपुराणे श्रीविष्णुनामाष्टकं स्तोत्रं ॥
