सामग्री पर जाएँ

अष्टमङ्गलघृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अष्टमङ्गलघृतम्, क्ली, (अष्टाभिः मङ्गलजनकद्रव्यैः कृतं यद्घृतं ।) अष्टौषधयुक्तपक्वघृतं । यथा, -- “वचा कूष्ठं तथा ब्राह्मी सिद्धार्थकमथापि च । सारिवा सैन्धवञ्चैव पिप्पली घृतमष्टमं ॥ सिद्धं घृतमिदं मेध्यं पिबेत् प्रातर्द्दिने दिने । दृढस्मृतिः कुमाराणां पिबतामष्टमङ्गलं” ॥ इति भावप्रक्राशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अष्टमङ्गलघृत¦ न॰ अष्टभिर्द्रव्यैर्मङ्गलार्थं घृतम्। चक्रोदत्तोक्तेघृतभेदे
“वचा कुष्ठं तथा ब्रह्मी सिद्धार्थकमथापि च। शारिवा सैन्धवञ्चैव पिप्पलीघृतमष्टमम्। मेध्यं घृतमिदंसिद्धं पातव्यञ्च दिने दिने। दृढस्मृतिः क्षिप्रमेधः कुमारीबुद्धिमान् भवेत्। न पिशाचा न रक्षांसि न भूता न चमातरः। प्रभवन्ति कुमाराणां पिबतामष्टमङ्गलम्”।

"https://sa.wiktionary.org/w/index.php?title=अष्टमङ्गलघृत&oldid=212506" इत्यस्माद् प्रतिप्राप्तम्