अष्टमङ्गलघृतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टमङ्गलघृतम्, क्ली, (अष्टाभिः मङ्गलजनकद्रव्यैः कृतं यद्घृतं ।) अष्टौषधयुक्तपक्वघृतं । यथा, -- “वचा कूष्ठं तथा ब्राह्मी सिद्धार्थकमथापि च । सारिवा सैन्धवञ्चैव पिप्पली घृतमष्टमं ॥ सिद्धं घृतमिदं मेध्यं पिबेत् प्रातर्द्दिने दिने । दृढस्मृतिः कुमाराणां पिबतामष्टमङ्गलं” ॥ इति भावप्रक्राशः ॥
