सामग्री पर जाएँ

अष्टमङ्गलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अष्टमङ्गलम्, क्ली, (अष्टप्रकारं मङ्गलम् ।) अष्टप्रकार- मङ्गलद्रव्यं । तद्यथा, -- “मृगराजो वृषो नागः कलसो व्यजनन्तथा । वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलं” ॥ इति वृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतौ ॥ “लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथा ष्टमः” ॥ इति शुद्धितत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अष्टमङ्गलम्&oldid=114541" इत्यस्माद् प्रतिप्राप्तम्