अष्टमूर्त्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टमूर्त्तिः, पुं, (अष्टौ मूर्त्तयो यस्य ।) शिवः । इति हेमचन्द्रः ॥ तत्प्रत्येकमूर्त्तिनामानि । क्षिति- मूर्त्तिः सर्व्वः १ जलमूर्त्तिर्भवः २ अग्निमूर्त्तिः रुद्रः ३ वायुमूर्त्तिरुग्रः ४ आकाशमूर्त्तिर्भीमः ५ यजमानमूर्त्तिः पशुपतिः ६ चन्द्रमूर्त्तिर्म्महादेवः ७ सूर्य्यमूर्त्तिरीशानः ८ । इति तन्त्रशास्त्रं ॥ एताः शरभरूपिशिवस्याष्टपादाः इति कालि- कापुराणं ॥ यथा । “अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः” । इति वदुकभैरवस्तोत्रं ॥ तस्याष्टमूर्त्तयो यथा । “अथाग्निः रविरिन्दुश्च भूमिरापः प्रभञ्जनः । यजमानः खमष्टौ च महादेवस्य मूर्त्तयः” ॥ इति शब्दमाला ॥ (“अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भमित्रम्” ॥ इति रघुवंशे ॥ तथा कुमारे च । “तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टमूर्त्ति¦ पु॰ अष्टौ भूम्यादयो मूर्त्तयोऽस्य।
“क्षितिर्जलंतथा तेजो वायुराकाशमेव च। यष्टार्कश्च तथा चन्द्रःमूर्त्तयोऽष्टौ पिनाकिनः” इत्युक्ताष्टमुर्त्तिधारिणि
१ शिवे।
“महेश्वरेण यो राजन्नजीर्ण्णो ह्यष्टमूर्त्तिना। कस्तमुत्सहतेवीरोयुद्धे जरयितुं पुमान्। भा॰ व॰ अ॰
४९
“अवेहि मांकिङ्करमष्टमूर्त्तेः” रघुः।
“स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः”
“जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः” इति च कुमा॰। क्षित्यादिमूर्त्तिभेदेन तस्य नामभेदः यथा सर्व्वः क्षिति-मूर्त्तिः एवं भवोजलमूर्त्तिः रुद्रोऽग्निमूर्त्तिः। उग्रोवायु-मूर्त्तिः भीम आकाशमूर्त्तिः पशुपतिर्यजमानमूर्त्तिः। महादेवः” सोममुर्त्तिः ईशान सूर्य्यमूर्त्तिः। एताएवतस्याष्टौ मूर्त्तयः शाकुन्तले वर्ण्णिताः
“या स्रष्टुः सृष्टिराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वेकालंविधत्तः श्रुतिविषयगुणा या स्थिता व्याप्यविश्वम्। यामाहुःसर्व्ववीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिःप्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः”। अष्टतन्वादयोऽ-ष्यत्र। कर्म्म॰ संज्ञात्वान्न द्विगुः। शिवस्य क्षित्यादिषुअष्टसु
२ मूर्त्तिषु स्त्री ब॰ व॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टमूर्त्ति¦ m. (-र्त्तिः) A name of SIVA. E. अष्ट eight, and मूर्त्ति form: evident in the earth, water, &c.
