सामग्री पर जाएँ

अष्टमूर्त्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अष्टमूर्त्तिः, पुं, (अष्टौ मूर्त्तयो यस्य ।) शिवः । इति हेमचन्द्रः ॥ तत्प्रत्येकमूर्त्तिनामानि । क्षिति- मूर्त्तिः सर्व्वः १ जलमूर्त्तिर्भवः २ अग्निमूर्त्तिः रुद्रः ३ वायुमूर्त्तिरुग्रः ४ आकाशमूर्त्तिर्भीमः ५ यजमानमूर्त्तिः पशुपतिः ६ चन्द्रमूर्त्तिर्म्महादेवः ७ सूर्य्यमूर्त्तिरीशानः ८ । इति तन्त्रशास्त्रं ॥ एताः शरभरूपिशिवस्याष्टपादाः इति कालि- कापुराणं ॥ यथा । “अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः” । इति वदुकभैरवस्तोत्रं ॥ तस्याष्टमूर्त्तयो यथा । “अथाग्निः रविरिन्दुश्च भूमिरापः प्रभञ्जनः । यजमानः खमष्टौ च महादेवस्य मूर्त्तयः” ॥ इति शब्दमाला ॥ (“अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भमित्रम्” ॥ इति रघुवंशे ॥ तथा कुमारे च । “तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः” ॥)

"https://sa.wiktionary.org/w/index.php?title=अष्टमूर्त्तिः&oldid=114550" इत्यस्माद् प्रतिप्राप्तम्