अष्टाङ्गार्घ्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टाङ्गार्घ्यः, पुं, (अष्टौ अङ्गानि उपकरणानि यस्य तादृशोऽर्घ्यः ।) अष्टद्रव्यघटितपूजोपकरणवि- शेषः । यथा, -- “आपः क्षीरं कुशाग्राणि दधि सर्पिः सतण्डुलाः । यवाः सिद्धार्थकाश्चैव अष्टाङ्गार्घ्यः प्रकीर्त्तितः” ॥ इति तन्त्रम् ॥ “आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि । रक्तानि करवीराणि तथा रक्तञ्च नन्दनम् ॥ अष्टाङ्ग एष अर्घ्यो व भानवे परिकीर्त्तितः” । इति काशीखण्डम् ॥
