अष्टादशाङ्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टादशाङ्गः, पुं, (अष्टादश अङ्गानि यस्मिन् ।) अष्टादशद्रव्यात्मकपाचनं । स चतुर्व्विधः । दश- मूल्यादिः १ । भूनिम्बादिः २ । द्राक्षादिः ३ । मुस्तादिः ४ । तद्यथा । “दशमूली शठी शृङ्गी पौष्करं सदुरालभा । भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी ॥ अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः । कासहृद्गहपाश्वार्त्तिहिक्काश्वासवमीहरः” ॥ १ ॥ “भूनिम्बदारुदशमूलमहौषधाब्द- तिक्तेन्द्रवीजधनिकेभकणाकषायः । तन्द्राप्रलापकसनारुचिदाहमोह श्वासादियुक्तमखिलं ज्वरमाशु हन्ति” ॥ २ ॥ “द्राक्षामृता शठी शृङ्गी मुस्तकं रक्तचन्दनं । नागरं कटुका पाठा भूनिम्बं सदुरालभं ॥ उशीरं पद्मकं धान्यं बालकं कण्टकारिका । पुष्करं पिचुमर्द्दश्च क्वाथं जीर्णज्वरापहः ॥ कासं श्वासञ्च विषमं श्वयथूदरनाशनं । अष्टादशाङ्गमुदितमेतत् स्यात् सन्निपातनुत्” ॥ ३ ॥ मुस्तपर्पटकोशीरदेवदारुमहौषधं । त्रिफला धन्वयासश्च नीली काम्पिल्लकं त्रिवृत् ॥ किराततिक्तकं पाठा बलाकटुकरोहिणी । मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ॥ अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत् । पित्तोत्तरे सन्निपाते हितञ्चोक्तं मनीषिभिः ॥ मन्यास्तम्भौरोघाते उरःपार्श्वशिरोग्रहे” ॥ ४ ॥ इति सुखबोधः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अष्टादशाङ्ग¦ पुंन॰ अष्टादश अङ्गानि यत्र। वैद्यक-प्रसिद्धे पाचनभेदे तच्च वातादिभेदेन भिन्नभिन्नप्रकारं दर्शितंचक्रदत्तेन।
“दशमूली शटी शृङ्गी पौष्करं सदुरा-लभम्। भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी। अष्टा-दशाङ्ग इत्येष सन्निपातज्वरापहः। कासहृद्ग्रहपार्श्वा-र्त्तिश्वासहिक्कावमीहरः
१ । भूनिम्बदारुदशमूलमहौषधाट्य-तिक्तेन्द्रवीजधनिकेभकणाकषायः। तन्द्रीप्रलापकसनारु-चिदाहमोहश्वासादियुक्तमखिलं ज्व रमाशु हन्ति
२ ॥ मुस्त-पर्प्पटकोशीरदेवदारुमहौषधम्। त्रिफलाधन्वयासश्च नी-लीकम्पिल्लकं त्रिवृत्। किराततिक्तकं पाठाबलाकटुक-रोहिणी। मधूकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते। अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत्। पित्तोत्तरे सन्नि-पाते हितञ्चोक्तं मनीषिभिः। मन्यास्तम्भे उरोघाते उरः-पार्श्वशिरोग्रहे”
३ । अत्यविधमप्यन्यत्रोक्तं विस्तरान्न तदुक्तम्।
