असतीसुतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
असतीसुतः, पुं, स्त्री, (असत्याः सुतः ।) व्यभि- चारिणीपुत्त्रः । तत्पर्य्यायः । बान्धकिनेयः २ बन्धुलः ३ कौलटेरः ४ कौलटेयः ५ । इत्यमरः ॥ “बन्धुलः कौलटेरश्च कौलटेयोऽसतीसुतः । तथा बान्धकिनेयस्तु स्यात् कौलकेय इत्यपि ॥ अथ सत्यान्तु भिक्षुक्यां पुत्त्रो भवति यः पुनः । तत्र कौलटिनेयः स्यात्कौलटेयोऽपि स स्मृतः” ॥ इति शब्दरत्नावली ॥ अपि च । असतीसूनुः कौ- लटेरश्च बन्धुलः । “अपि बान्धकिनेयः स्यात्कौलटेयोऽतिभिक्षुकी । कुलटापि सती सा चेत् कौलटेयस्तदात्मजः ॥ अपि कौलटिनेयः स्यात्” । इति जटाधरः ॥
