असत्ख्याति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्ख्याति¦ स्त्री असतः सत्त्वशून्यस्यानिर्वचनीयस्य ख्यातिर्ज्ञानम्। अनिर्व्वनीयस्य रजतप्रपञ्चादेर्ज्ञाने। यथा शुक्ति-कायां रजतमनिर्वचनीयमुत्पद्यमानमिव प्रतीयते एवं ब्रह्मणिजगत् अनिर्वचीयतयोत्पन्नमिव ख्यायते इति हि वेदान्तिनांमतम्। अस्ति हि सर्वलोकेषु प्रसिद्धम् इदं रजतमित्यादिज्ञानंतच्च प्रवर्त्तकतया सर्वैरभ्युपगम्यते। तत्र चतस्रोविधाःअख्यातिः अन्ययाख्यातिः आत्मख्यातिः असत्ख्यातिश्चेतिविवरणे स्थितम्। तत्राख्यातिवादिनामयमाशयः। इदं रजत-मित्यादो चक्षुराद्यसन्निकर्षात् पारिशेष्यात् रजतं स्मर्य्यते नतु ज्ञायते इति तस्य स्मरणस्याख्यातित्वमिति। तदेतन्न सम्यक्रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् स्मर्य्यमाणस्याप्रवर्त्तक-त्वाच्च नचेदमंशस्यैव प्रत्यक्षत्वं न रजतस्येति वाच्यम् यथासत्यरजतस्थलेषु इदं रजतम् अयं घट इत्यादिषु इतरेतरसंसृष्टौ सामान्यविशेषौ अपरोक्षतयाऽनुभूयेते अत्रापितथानुभवात्। अथ सामान्यविशेषयोर्नैरन्तर्य्येण प्रतिभासात्तथा व्यवहारो न तु संसर्गज्ञानरूपविशिष्टज्ञानसम्भवा-दिति वाच्यम् सत्यस्थलादीषन्न्यूनताया अदर्शनात्। अथपुरोवर्त्तिनि रजतसंसर्गाभाव एव न्यूनतेति चेन्न पुरोवर्त्तिनिरजतसत्त्वासत्त्वयोरेवावयोर्विवादात् तदभावस्य न्यूनत्वासाधकत्वात्। किञ्च पुरोंवर्त्तिनि रजतसंसर्गाभावः कथंनिश्चीयते किं तद्गोचरज्ञानाभावात्? किं वा नेदंरजतमिति बाधज्ञानात्? नाद्यः तद्गोचरज्ञानाज्ञानयोरे-वावयोर्विवादात् अर्थाभावेन ज्ञानाभावनिश्चयेऽन्योन्या-श्रयात्। तस्मादपरोक्षज्ञानोदयादेव पुरोवर्त्तिनि रजतसत्ताङ्गीकार्य्या। न च अर्थसत्तानिश्चयाधीनः ज्ञानसत्ता-निश्चय इति कल्पनात् प्रकृते चार्थासत्त्वात् न ज्ञानसत्त्व-मिति वाच्यम् अर्थसत्तानिश्चयस्यापि निश्चयान्तराधीन-तयाऽनवस्थाप्रसङ्गात्। तस्मात् संविन्निश्चयः स्वग्राहकसा-मग्रीप्रयोज्यतया स्वतएव। तदधीनस्तु अर्थसत्तानि-श्चयः। नापि द्विंतीयः रजतमिति उत्तरज्ञानविरोधि-ज्ञानसत्त्वे नेदं रजतमिति ज्ञानानुदयेन तेन बाधा-योगात्। किञ्च इदं रजतमित्यत्र यथा इदमाकाररजताकारयोरविवेकस्त्वया कल्प्यते तथा नेदं रजतमित्यत्रापितयोरविवेक एव कल्प्यतां न तु विशिष्टसंसर्गसंविदित्यपिअस्माभिर्वक्तुं शक्यते। अथ विशिष्टज्ञानर्स्यव संवादिप्र-[Page0531-b+ 38] वृत्तिजनकत्वमिव विशिष्टनिषेधबोधस्यैव निवर्त्तकत्वमितिनिषेधस्य विशिष्टसंसर्गिविषयकत्वमिति चेन्न प्रंवृत्तिनिवृ-त्तिमात्रं प्रत्येव संसर्गतदभावग्रहस्य हेतुतयैवोपपत्तौसंवादिविसंवादित्वयोः तत्र प्रवेशे गौरवात् किञ्च प्रवृत्तेः सं-वादित्वमपि वस्तुसत्त्वासत्त्वनिबन्धनम्। तच्च सत्यासत्ययो-रुभयत्राप्यस्ति। न च पुरोवर्त्तिनि रजताभावः सर्वसम्मतः। शुक्तिकायां यथावभासमेवासत्यरजतस्य शुक्तिज्ञानेननिरसनयोग्यस्यैवास्माभिः स्वीकारात्। इयांस्तु भेदःतत्र मिथ्यारजंताभ्युपगमेऽपि नेदं रजतमिति त्रैकालिकरजतनिषेधः परमार्थिकरजतविषयत्वान्न विरुव्यते। नचाप्रसक्तनिघेधानुपपत्तिः। मिथ्याभूतेऽपि रजते परमार्थरजतार्थिनां प्रवृत्तिदर्शनेन परमार्थरजतस्य सामान्योपा-धिना रजतत्वेन प्रसिद्धिसम्भवात् अन्यथा भूतलादौ घटादिनिषेधोऽपि अप्रसक्तनिषेधः स्यात् तत्र घटादिसत्त्वे तदमा-वोव्याहत्येत। तदसत्त्वे तु अंप्रसक्तनिषेधः स्यात्। ततश्च देशसामान्योपाधिना कालसामान्योपाधिना वा यथा घटादिप्रसक्तिर्नतु तत्कालिकभूतलत्वादिना तथा परमार्थरजतस्यप्रसक्तिर्भविष्यति। एवञ्च उत्तरकाले नास्त्र्यत्ररजतमिति प्रत्यक्षं सत्यरजतविषयम् मिथ्यैव रजतप-भादिति प्रत्ययश्च मिथ्यारजतविषयैत्युभयमप्युपपद्यते। एतेन रजतापरोक्ष्यं विशिष्टसंसर्गज्ञानं विनाप्यपरोक्षशुक्तिज्ञानाविवेकादुपपद्यते इत्यपि परांस्तम्। विवेकज्ञान-कालेऽप्येतावन्तं कालं रजतमनेनाविविक्तमित्येव विवेकस्यैवपरामर्शप्रसङ्गात् एतावन्तं कालमिदं रजतमित्यभादितिप्रत्यभिज्ञाया अनुपपत्तेश्च। अतश्च पुरोवर्त्तिनिअसद्रजतमुत्पद्यते इत्यङ्गीकार्य्यम्। अन्यथा शुक्तिज्ञानात्रजते प्रवृंत्तौ अतिप्रसङ्गः स्यात् समानविषयक-ज्ञानस्यैव प्रवर्त्तकत्वात् ततश्च न स्मर्य्यमाणमिदंरजतं किन्तु स्मर्य्यमाणसदृशमेव तदङ्गीक्रियते। तत्-सादृश्यञ्च पूर्ब्बानुभवसापेक्षज्ञानगम्यत्वेन। नह्यननुभूत-रजतस्य पुरुषस्य रजतभ्रमोभवति। ज्ञानरूपाध्यासस्यतु संस्कारजन्यत्वेन स्मृतिसादृश्यमिति भेदः। अय ज्ञानस्व प्रमाणस्मृतिर्द्वैविध्यनियमेन अध्यासस्य बाधि-तविषयकत्वात् परिशेषात् संस्कारमात्रजन्यज्ञानत्वाच्चस्मृतित्वमेवास्तु। न च स्मृतित्वे अतिसादृश्याच्छुक्त्यन्तर-मेव कुतो न स्मर्य्यते इति वाच्यं कर्तृ गतरागादिदोषाणा-मपि तन्निमित्तत्वात् शुक्त्यन्तरे तदभावात् एवं तैरेव दोषैःस्मरणाभिमानस्य प्रमुषितत्वान्नं रजतस्मरणेऽपि तत्तांश उल्लि-[Page0532-a+ 38] ख्यते नवा स्मरामीत्यनुव्यवसायः तथा तैरेव विशेषावभासस्यप्रतिरोधान्न शुक्तिग्रहणेऽपि तदीयनीलपृष्ठादिविशेषग्रहः। तथा च इदमंशे ग्रहणं रजतांशे स्मरणमुभयात्मकमपिज्ञानमविविक्ततया प्रवर्त्तकमिति तादृशग्रहणस्मरणाभ्यांरजतार्थी पुरोवर्त्तिनि प्रवर्त्तते इति चेन्न ग्रहणस्मरणेकिं द्वे अपि प्रवर्त्तके आहोस्विदेकैकम् आद्येऽपि किंसंभूय प्रवर्त्तके! क्रमेण, वा नाद्यः स्मृतिग्रहणयोः युगप-दुदयासम्भवात्। क्रमविशिष्टयोर्द्वयोः प्रवर्त्तकत्वमपि नयुक्तम् पूर्व्वज्ञानस्य उत्तरज्ञानेन व्यवधानात् प्रवृत्तिहेतु-त्वानुपपत्तेः इदमिति रजतमिति च विशृङ्खलयोरपिज्ञानयोः प्रवर्त्तकत्वापत्तेश्च। नाप्येकैकस्य प्रवर्त्तकत्वं व्यव-हारस्य विशिष्टविषयकतया विशिष्टप्रवृत्तये विशिष्टसंसर्गग्रहस्यैव हेतुतायाः स्वीकार्य्यत्वादितिं। ( अत्र ग्रहणस्मरंणनैरन्तर्य्येणोत्पत्त्या प्रवर्त्तकत्वसम्भ-वेनासत्ख्यातिर्नाङ्गोकार्य्या अपि तु विशिष्टसंसर्गस्याख्यातिं-रेवेति अख्यातिवादिनामेकदेशिनः आहुः। ( तदपि वेदान्तिभिः निराकृतं यथा केयमख्यातिर्नाम किंख्यात्यभावः? उत अन्यार्थिनोऽन्यत्र प्रवृत्तिहेतुभूतविज्ञा-नम्? अथाविविक्तानेकपदार्थज्ञानम्?। आद्ये सुषुप्तावेवसर्व्वज्ञानाभावसत्त्वेन तत्रैव भ्रमःस्यात् नान्यत्र जाग्र-तस्वप्नयोः। द्वितीये झटिति बाधादालस्यादिंना वायत्र प्रवृत्तिर्न जाता तत्र भ्रान्तित्वं न स्यात्। तृतीयेऽप्य-विविक्तत्वप्रतियोगिविविक्तत्वं नाम किम् भेदग्रहः? उतअभेदाग्रहः? आहोस्विदितरेतराभावभेदद्वित्वादिसंख्या-विशिष्टज्ञानम्? नाद्यः इदमिति रजतमिति च पुनरुक्तशब्द-द्वयहेतुत्वेन सामान्यविशेषयोर्भेदग्रहे सत्यपि अविवेकासद्भा-वात्। न द्वितीयः उत्तरीत्था भेदस्य मृहोतत्वादेवत्वतद्विरु-द्धस्याभेदस्याग्रहे सति तद्ग्रहनिषेधरूपस्याविविक्त{??}स्य दुःस-म्पादत्वात्। तृतीयेऽपि द्वित्वादिज्ञानमपेक्षितं किमव्यास-ज्यवृत्ति उतानुषङ्गिकमपि पर्य्याप्तम् आद्ये गामानयदण्डेनेत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वाद्यप्रतीतेरवि-वेकः प्रसज्येत। द्वितीये तु पुरोवर्त्तिरजतयोरप्यानुषङ्गिकद्वित्वादिज्ञानस्य सद्भावेन दुष्परिहरणणीयत्वात्। नन्व-विवेको नाम असंसर्गाग्रहः स च प्रतीयमानयोरिदंरजतयोः संभवति इदंरजते असंसृष्टे इति प्रत्ययादर्शनात्इति चेत् तदापि किं ग्रहणस्मरणयोरेवासंसर्गो विवक्षितः?उत ययोः कयोश्चित्? आहोस्वित् संसर्गज्ञानरहितयोः?आद्ये अहं मनुष्य इति भ्रमो न स्यात् उभयोरपि ग्रह-[Page0532-b+ 38] णत्वान्। द्वितीये षण्डोगौः शुक्लः पटैत्यपि भ्रमःस्यात्असंसर्गप्रतीत्यभावात्। तृतीयेऽपि सएव दोषःस्यात् न हितत्र संसर्गाज्ञानं संभवति तद्विषयस्यैक्याभावात् ऐक्यस्यंच तद्विषयत्वस्य प्रत्यभिज्ञायमानत्वात्। यदि गुणगुण्यादिसंबन्ध एव तद्विषययोरैक्यमित्युच्यते तर्हि इदं रजतमित्य-त्रापि सादृश्यतत्सम्बन्धस्तद्विषयैत्यस्यापि वक्तुं शक्य-त्वेन संसर्गप्रत्ययोदरुद्धरः। अथ तत्र नेदं रजतंमित्यसंसर्गतत्प्रत्ययेन बाधान्न संसर्गतत्प्रत्ययौ सम्भवतः। तर्हित्वन्मतेऽपि गुणगुण्यादेरितरेतराभावज्ञानाख्योऽसंसर्ग-प्रत्ययोऽस्त्येवेति संसर्गतत्प्रत्यययोरसम्भवात् भ्रमत्वापत्ति-स्तदवस्था तस्मान्नासंसर्गाग्रहोऽप्यविवेकः। ( अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेत्न रजतस्य पुरोवस्थितत्वेन प्रतिभासादित्युक्तोत्तरत्वात्न च पुरोऽवस्थितत्वमविवेककृतमिति वक्तुं शक्यम्। अविवेकस्य भ्रमं प्रत्यप्रयोजकत्वात्। तथा हि किं गृह्यमाणयोरविवेकः? किं वा गृह्यमाणस्मर्य्यमाणयोः? किंवा स्मर्य्यमाणयोः? नाद्यः स्वप्नदशायामात्मव्यतिरिक्तस्यकस्याप्यग्रहणेन द्वयोर्गृह्यमाणयोरभावे तदविवेकस्य भ्रम-प्रयोजकंस्याप्यभावेन भ्रमाभावप्रसङ्गात्। न द्वितीयःस्वप्ने गृह्यमाणेनात्मना स्मर्य्यसाणस्य नीलादेरविवेकेसति अहं नीलमिति प्रतिभासप्रसङ्गात्। तृतीये तु परोक्ष-मेव सर्व्वभ्रान्ताववभासेत, सर्व्वस्यापि स्मर्य्यमाणत्वात्एवं च सति प्रकृतस्य पुंरोऽवस्थितरजतज्ञानस्य स्मृति-त्वानुमाने परोक्षावभासित्वोपाधिर्द्रष्टव्यः। याथार्थ्यानुमानस्य चायं प्रतिप्रयोगः। विमताः प्रत्यया न यथा-र्थाः बाध्यमानत्वाद्भ्रान्तिव्यवहारवदिति तस्मात् बोधद्वै-राश्यदुराग्रहं परित्यज्य तृतीयं भ्रान्तिज्ञानमङ्गीकर्त्तव्यम्। ( अन्यथाख्यातिरिति नैयायिकादयः। ते हीत्थमुररी-चक्रुः ननु तर्हि मा भूदख्यातिः अस्त्वन्यथाख्यातिः। तथाहि देशकालान्तरगतं हि रजतं शुक्तिसंप्रयुक्तेन दोषोपहितेनेन्द्रियेण शुक्त्यात्यना गृह्यते न चैवमननुभूतस्यापिग्रहणप्रसङ्गः। सादृश्यादेर्नियाकत्वादिति”। तदेतदसत् किं ज्ञानेऽन्यथात्वं? किं वा? फले उतवस्तुनि?। नाद्यः रजताकारं ज्ञानं शुक्तिमालम्बते इतिज्ञानेऽन्यथात्वं वाच्यम्। तत्र शुक्तेरालम्बनत्वं नाम किंज्ञानं प्रति स्वाकारसमर्पकत्वम् उत ज्ञानप्रयुक्तव्यवहारवि-षयत्वम् नाद्यः। रजताकारग्रस्तं ज्ञानं प्रति शुक्तेःस्वाकारसमर्पणासम्भवात्। न द्वितीयः व्याघ्रादिदर्शन[Page0533-a+ 38] प्रयुक्तव्यवहारविषयस्य खड्गकुन्तधनुरादेर्व्याघ्रादिज्ञानालम्बनत्वप्रसङ्गात्। नापि फलेऽन्यथात्वम् फलस्यस्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्श-नात्। वस्तुन्यपि कथमन्यथात्वं किं शुक्तिकायां रजत-तादात्म्यं किंवा रजताकांरेण परिणामः। आद्येऽपिकिं शुक्तिरजतयोरत्यन्तभेदः किंवा भेदाभेदौ। नाद्यः। अत्यन्तभिन्नयोर्वास्तवतादात्म्यासम्भवात् अनिर्व्वचनीयस्यत्वया अनभ्युपगमात् शून्यतादात्म्यंप्रतीतौ च गुण-गुण्यादावपि तत्सम्भवेन भ्रान्तित्वं दुर्व्वारम्। समवायस्यच प्रक्रियामात्रसिद्धस्य तादात्म्यानतिरेकात्। मेदा-भेदपक्षे तु षण्डोगौरितिवदभ्रान्तिः स्यात्। परिणाम-पक्षेऽपि बाधोन स्यात्। विमतं रजतज्ञानमबाध्यं परिणा-मज्ञानत्वात् क्षीरपरिणामदुग्धज्ञानवत्। अतः क्षीरवदेवशुक्तिर्न पुनर्बाध्येत। ननु कमलमुकुलविकाशरूपपरिणाम-हेतोः सूर्य्यतेजसोऽपगमे पुनर्मुकुलीभाववद्रजतपरिणाम-हेतोर्दोषस्यापगमे पुनः शुक्तिभावोऽस्तु इति चेत् मैवं विक-सितमेव मुकुलमासीदितिवत् रजतमेव शुक्तिरासीदितिप्रतीत्यभावात् कथञ्चित् तद्भावेऽपि न परिणामपक्षो युक्तःनिर्दोषस्यापि रजतप्रतीतिप्रसङ्गात् नचैकमेव क्षीरं दधि-रूपेण कञ्चित् पुरुषं प्रति परिणतमन्यंप्रति नेति दृष्टचरंतस्मान्नान्यथाख्यातिः सुनिरूपा। ज्ञानलक्षणया देशान्त-रगतरजतभानन्तु साक्षात्करोमीति साक्षात्कारोल्लेखिबुद्धे-रन्यथानुपत्त्या न सम्भवतीति द्रष्टव्यम्। किञ्च ज्ञानलक्ष-णायाः प्रत्यासत्तित्वे तथैव पर्व्वते वह्निज्ञानसम्भवेनानु-मानादेरुच्छेदः स्यात् अनुव्यवसायात्तत्सत्त्वकल्पने तुप्रकृतेऽपि साक्षात्क्मरानुव्यवसायसत्त्वेन तुल्यत्वात। आत्म-ख्यातिरिति बौद्धाः। तथाहि सर्व्वासां बुद्धीनां विषयमन्त-रेणापि तदाकारोल्लेखसम्भवेन रजतज्ञानभपि बुद्धिरूपतयान विषयान्तरमपेक्षते इत्यात्मनः बुद्धेरेव ख्यातिः प्रतिभासः
“सहोपालम्भनियमादभेदोनीलतद्धियोः। भेदश्च भ्रान्तिवि-ज्ञानैर्दृश्येतेन्दाविवाद्वयः। अविभागोऽपि बुद्ध्यात्मा वि-पर्य्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति तेषां सिद्धान्तात्। तथाच विमतं रजतं बुद्धिरूपंचक्षुरादिसंप्रयोगं विनाऽप्यपरोक्षित्वात् सम्मतबुद्धिवत्इत्यनुमानेन रजतादेस्तद्रूपतासिद्धिः। ते हिं मन्यन्तेशब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाश्च षडपि प्रत्य-याः आलम्बनसमनन्तरसहकार्य्यधिपतिरूपान् प्रत्ययपदवा-च्यान् चतुरोहेतूनपेक्ष्यैव उत्पद्यन्ते। तत्र नीलावभासरूपस्य[Page0533-b+ 38] चित्तरूपज्ञानस्य नीलालम्बनवतो नीलाकारता भवति। समनन्तरप्रत्ययात् पूर्ब्बतनज्ञानवासनारूपात् बोधरूपता,सहकारिप्रत्ययादालोकात् स्पष्टतावभासः। चक्षुरादेरधि-पतिप्रत्ययात् विषयप्रतिनियम इति। तत्रेदमुच्यते प्रकृते नतावत् सहकारिप्रत्ययाख्यादालोकात् रजताकारोदयो भवतितस्य स्पष्टतामात्रहेतुत्वात्। नाम्गधिपतिप्रत्ययाख्याच्च-क्षुरादेः सम्भवति तस्य विषयविशेषं प्रत्येव नियमनमात्रहेतुत्वात्। नापि समनन्तरप्रत्ययाख्यात् पूर्ब्बज्ञानात्। विजातीयघटादिज्ञानानन्तरं विजातीयरजतभ्रमोदयप्रस-ङ्गात्, नाप्यालम्बनप्रत्ययाख्याद्बाह्यार्थाद् भवति। विज्ञानवा-दिभिस्त स्यानङ्गीकारात्। ततश्च रजतादिबाह्यार्थासत्त्वे विज्ञा-नस्य कथं रजताकारतासमर्पणम्। संस्कार सामर्थ्येन तत्क-ल्पनेऽपि न निस्तारः संस्कारस्य क्षणिकस्थायित्वविकल्पासह-त्वात्। तथाहि स्थायित्वे सिद्धान्तहानिः। क्षणिकत्वे पूर्वा-नुभवोत्तरमुत्पन्नस्य तस्य द्वितीयक्षणे नाशात रजताकारोल्लेखस-मये तस्यासत्त्वात् कथं तेन तदाकारोल्लेखः सम्भवति। किञ्चसंस्कारस्य विज्ञानातिरिक्तत्वे क्षणिकविज्ञानमात्रसिद्धान्त-हानिः। अथानादिज्ञानसन्ततौ यदा कदाचित् पूर्ब्बंरजतज्ञानमुत्पन्नं तदेव संस्कार इत्यङ्गीक्रियते स चयद्यपि विजातीयानेकज्ञानव्यवहितः तथापि कदाचित्सजातीयं ज्ञानान्तरमुत्पादयत्येव यथा ब्रीहिवीज-मनेकाङ्कुरादिकार्य्यव्यवधोनेऽपि कदाचित् सजातीया-न्तरमुत्पादयति तद्वत्। अथ न पूर्व्ववीजादुत्तरवीजो-त्पत्तिः किन्तु पूर्ब्बवीजजन्याङ्कुरसन्तानादेव तदुत्पत्तिरितिचेत् तर्ह्यत्रापि पूर्ब्बरजतज्ञानजन्यज्ञानसन्तानएवसंस्कारोऽस्तु अतो न सिद्धान्तहानिः। एवं पूर्ब्बरजतज्ञा-नमपि ततः पूर्व्वतररजतज्ञानादुत्पद्यते ततोऽनादिवासना-प्रापितं रजतं बुद्धिरूपमेव सत् भ्रान्त्या बहिर्वदवभासतेइति चेत् अत्रोच्यते वेदान्तिभिः, किं तद्रजतमलौकिकंलौकिकं वा अलौकिकत्वेऽपि किं जन्मरहितम् उतलौकिकरजतवदेव जायते। अंलौकिकत्वे जन्मरहितत्वेच जायमानस्य ज्ञानस्य रूपं न स्यात्। द्वितीयेऽपि किंबाह्यार्थात् जायते, उत ज्ञानात् नाद्यः तैर्बाह्यार्थानङ्गी-कारात् ज्ञानादेव तदुत्पादाभ्युपगमे दुष्टकरणजन्यज्ञा-नादुत्पादो वाच्यः तथा च जनकस्य पूर्ब्बसत्त्व-नियमेन तज्जनिका प्रतीतिः न रजतं गृह्णीयात् वर्त्तमानपदार्थस्यैवाकारार्पकत्वनियमात् क्षणिकयोर्जन्यजनकयो-र्भिन्नकानीनत्वेन रजतस्यापरोक्षकाले पूर्ब्बज्ञानस्यासत्त्वात्[Page0534-a+ 38] तेन ग्रहीतुमशक्यत्वात् अतोरजतापरोक्षव्यवहारो विलुप्तःस्यात्। यदि अन्येन केनचित् दुष्टकरणजन्यज्ञानेनतदुत्पादस्ततः स्वात्मकबुड्या तद्ग्रहःस्यादित्यङ्गीक्रियतेतदाऽतिप्रसङ्गः किञ्च दुष्टकरणजन्यज्ञानस्यैव तदुत्पादं-कत्वं वाच्यं तत्र करणस्य दुष्टत्वञ्च अर्थक्रियाकारिताशून्यवि-षयग्राहित्वेनैव तथा च असति रजते कथं करणस्य दुष्टत्वनिर्ण्णयः। अथ अदुष्टकरणजन्यज्ञानं तदुत्पादयति तदा तस्यघटादिवत् अर्थक्रियाकारित्वरूपसत्त्वसम्भवेन देशान्तरवर्त्ति-रजतविषयकादविशेषः स्यात्। किञ्च रजतस्यानुत्पत्तौ नतस्य ज्ञानविषयता ज्ञानाकारार्पकतयैव विषयत्वस्य त्वयास्वीकारात् अनुत्पन्नस्य कथं ज्ञाने स्वाकारार्पकत्वंसम्भवः। तस्मादात्मख्यातिपक्षे रजतमेव ज्ञानेन न प्रतीयेत। ( एवमख्यात्यन्य याख्यात्यात्मख्यातिपक्षेषु निरस्तेषु इदानीम-सत्ख्यातिपक्षः वेदान्तिभिरभ्युपगतः आक्षेपपूर्ब्बकं प्रदर्श्यतेइदं रजतमिति ज्ञानं स्मृतिग्रहणाभ्यामन्यत् अध्यास-नामकं ज्ञानं यत्र असतोऽनिर्वचनीयस्य उत्पन्नस्य रजता-र्देभानमीदृशं ज्ञानमसत्ख्यातिपदवेदनीयमस्ति। ननुज्ञानस्य स्मृतिग्रहणाभ्यामन्यः प्रकारो न सम्भवति इतिचेन्न किं विलक्षणसामग्र्यनिरूपणात् तदसम्भवः? उतविलक्षणज्ञानस्वरूपानिरूपणात्? उत विलक्षणविषयानिरूपणात्? नाद्यः संप्रयोगसंस्कारदोषाणामेव तत्-सामग्रीतया कल्पनात् न चंदोषस्य पूर्ब्धप्राप्तकार्य्यानुदयंप्रत्येव हेतुत्वं न पूर्ब्बकार्य्योदयं प्रतीति वाच्यं कार्य्यानुद-यस्य तत्प्रागभावरूपतयाऽनादिनि तत्र दोषहेतुत्वासम्भ-वात्। वातपित्तश्लेष्मणाञ्चापूर्व्वकार्य्योत् पादकत्वदर्शनाच्चन च दोषस्य संस्कारोद्बोधकत्वेनान्यथांसिद्धिः तदुद्बो-धस्य तद्व्यापारत्वात् न हि व्यापारेण व्यापारिणोऽ-न्यथासिद्धिरिति नियमात् नह्युत्पतननिपतने कुर्व्वन्कुठारः छिदिक्रियां प्रति अहेतुर्भवतिं। ननु इन्द्रियसंप्रयोगस्य इदन्तामात्रे सत्त्वात् रजतांशेऽसत्त्वात् इदन्तता-बोधनेन तस्योपक्षीणंत्वात् एवं संस्कारस्य स्मृतिमात्रजनकत्वनियमेन वेदान्तिमते अध्यासात्मकज्ञानस्य स्मृति-त्वानङ्गीरात्, दोवस्य च स्वातन्त्रेप्रण ज्ञानहेतुत्वस्य कुत्राप्य-दर्शनाच्च कथं रजतावभास इति चेत् उच्यते प्रथमं दोष-सहितेनेन्द्रियेण इदन्तामात्रविषयाऽन्तःकरणवृत्तिर्जन्यतेतत्र इदन्तायां तद्ग्राहकवृत्तौ च चैतन्यमभिव्यज्यतेतच्चैतन्यनिषा शुक्त्यविद्या च दोषवशात्संक्षुब्धा भवतितत्रेदमंगावच्छिन्नचैतन्यस्थाऽविद्या दोषेण क्षुभिता सती[Page0534-b+ 38] सादृश्याद्युद्बोधितसंस्कारवशात् रजताकारेण विवर्त्तते। वृत्त्यवच्छिन्नचैतन्यस्थाऽविद्या तु रजतग्राहिवृत्तिसंस्कारसहकृता वृत्तिरूपेण विवर्त्तते। तौ च रजततद्वृत्तिरूपविवर्त्तौस्वाधिष्ठानेन साक्षिचैतन्येनावभास्येते इत्येवं रजतावभासःकल्प्यते। यद्यम्यन्तःकरणवृत्तिरविद्यावृत्तिश्चेतिज्ञानद्वयम्तथापि तद्विषयौ सत्यानृते इदंरजते अन्योन्यात्मकतामापन्नौइति विषययोरैक्यात् वृत्तिद्वयस्यैक्यम् ततश्च विषयावच्छिन्नफ-लस्याप्येकत्वेन ज्ञानैक्यमुपपद्यते। एवं मिथ्याज्ञानतद्विषय-योर्निरूपणेन द्वितीयतृतीयविकल्पौ निरस्तौ वेदितव्यौ। यदा-प्यन्यत्र संप्रयोगसंस्कारौ परस्परं निरपेक्षो प्रमितिस्मृत्यो-र्जनने समर्थौ दृष्टौ तथापि क्रमेण स्मृतिप्रमित्योरुत्पत्तौप्रवर्त्तकत्वानुपत्तौ प्रवृत्त्यन्वथानुपपत्त्या ताभ्यां प्रत्यभिज्ञावदेकं विशिष्टं मिथ्याज्ञानं जन्यते इति कल्प्यते यथानैयायिकादिभिः निरन्तरोत्पन्नेष्वपि वर्ण्णज्ञानेषुयौगपद्याभावात् पदार्थज्ञानानुपवत्त्या पूर्ब्धज्ञानजन्यसंस्कारसहितमन्त्यवर्णज्ञानमेव पदार्थबुद्धिहेतुत्वेन कल्प्यतेतद्वत्। ननु विमतं ज्ञानं नैकं भिन्नकारणजन्यत्वात्रूपरसादिज्ञानवदिति चेत् न अनुमानप्रत्यभिज्ञानयोर्व्य-भिचारात् उभयोरपि नानाकारणजन्यत्वात्। अनुमानं हिव्याप्तिज्ञानसंस्कारलिङ्गदर्शनपरापर्शजन्यम्। प्रत्यमिज्ञाच इन्द्रियसंप्रयोगसंस्काररजन्येति सर्व्वैरङ्कीक्रियतेन च शुक्तौ अनिर्वचनीयस्य रजतस्योत्पत्तौ तस्य च शुक्तौसंसर्गात् कथं तस्य मिथ्यात्वमसत्त्वञ्च स्यादिति वाच्यम्सत्तात्रैविध्याङ्गीकारेण तत्र व्यावहारिकसत्ताशून्यत्वेनैव तस्यमिथ्यात्वस्य कल्पनात्। तथाहि सत्त्वं त्रिविधं पारमा-र्थिकं त्रैकालाबाध्यत्वरूपं यथा ब्रह्मणः। व्यावहारिकंब्रह्मज्ञाननिर्वर्त्त्यम् यथा आकाशादेःप्रातीतिकम अधिष्ठा-नज्ञाननिवर्त्त्यं यथा शुक्तिरजतादेः। न च मिथ्यात्वकल्पनंमानहीनम्”
“अथ रथान् रथयोगान् पथः सृजते” इतिश्रुतेः मिथ्यवात्र रजतमभादिति रजततजज्ञानयोर्मिथ्या-त्वप्रत्यभिज्ञानस्य च मानत्वात्। अतो मतान्तरवत वेदान्तमतेनानुभवविरोधोनिर्मूलत्वं वा। अख्यातिपक्षे अपरोक्षाव-भासिनः स्मर्य्यमाणत्वं विरुध्यते। ज्ञानहयपक्षे रजतस्यपारोक्ष्यं स्मृतौ स्मरणाभिमानमोषादिकम, अन्यथाख्यातौरजतंस्य आपरोक्ष्यानुभवबिरोधः आत्मख्यातिपक्षे विषया-भावेनापरोक्षाबभासविरोधः”। पमेवविवरणसारांशः। ( शुक्तिरजतादि ज्ञान्ततष्टान्तेनज्ञाननिवर्त्त्यतया सर्व्वेषांघटपाटादिज्ञानानामसत्ख्यातित्वं तद्विषयाणां वस्तु-[Page0535-a+ 38] तोऽसत्त्वात् असत्त्वेऽपि सत्त्वेन व्यवहार्य्यतामात्रमितिशुक्तिजतादिभ्यो घटादीनां विशेषः इति अध्या-सखरूपमिथ्याज्ञानमाक्षिप्य तत् समर्थयता च भाष्यकृ-ता तथैव व्यवस्थापितम्” यथा
“युष्मदस्मत् प्रत्यगोचरयोर्वि-षयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुप-पत्तौ सिद्धायां तद्धर्म्माणामपि सुतरामितरेतरमावानु-षपत्तिरित्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्-प्रत्ययगोचरस्य विषयस्य तद्धर्म्माणाञ्चाध्यासस्तद्विपर्य्ययेणविषयिणस्तद्धर्म्माणाञ्च विषयेऽध्यासोमिथ्येति भवितुंयुक्तम्। तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्म्मांश्चाध्यस्येतरेतराविवेकेणात्यन्तविविक्तयोर्धर्म्मधर्म्मिणो र्मिथ्या-ऽज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेद-मिति नैसर्गिकोऽयं लोकव्यवहारः॥ आह कोऽयम-ध्यासोनामेति उच्यते स्मृतिरूपः परत्र पूर्ब्बदृष्टावभासः। तं केचिदन्यत्रान्यधर्म्माध्यास इति वदन्ति। केचित्तुयत्र यदध्यासस्तद्विवेकाग्रहणनिबन्धनो भ्रम इति। अन्येतु यत्र यदध्यासस्तस्यैव विपरीतधर्म्मत्वकल्पनामाचक्षते इति सर्वथापि तु अन्यस्यान्यधर्म्मावभासतां न व्य-भिचरति। तथा च लोकेऽनुभवः शुक्तिका हि रजतवदव-भासते एकश्चन्द्रः स द्वितीयवदिति। कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयधर्म्माणाम्?। सर्व्वी हि पुरोऽवस्थितेविषये विषयान्तरमध्यस्यति। युष्मत्प्रत्ययापेतस्य च प्रत्य-गात्मनोऽविषयत्वं ब्रवीषि। उच्यते। न तावदयमेकान्ते-नाविषयः अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः। नचायमस्तिवियमः पुरोऽवस्थित एव विषये विष-यान्तरमध्यसितव्यमिति अप्रत्यक्षेऽपि ह्याकाशे बालास्तल-मलिनताद्यध्यस्यन्ति। एवमविरुद्धः प्रत्यगात्मन्यऽन्यऽनात्मा-ध्यासः। तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येतिमन्यन्ते। तद्विवेके च वस्तुस्वरूपावधारणं विद्यामाहुः। तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेण वाअणुमात्रेणापि स न संबध्यते। तमेतमविद्याख्यमात्माऽना-त्मनोरितरेतराध्यासं पुरस्कृत्य सर्व्वे प्रमाणप्रमेयव्यवहारालौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधि-प्रतिषेधमोक्षपराणि। कथं पुनरविद्यावद्विषयाणि प्रत्य-क्षादीनि प्रमाणानि? शास्त्राणि चेति। उच्यते। देहेन्द्रि-यादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः। नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यव-हारः संभवति। नचाधिष्ठानमन्तरेण इन्द्रियादिव्यापारः[Page0535-b+ 38] संभवति। नचानध्यस्तात्मभावेन देहेन कश्चित् व्याप्रियते। न चैतस्मिन् सर्व्वस्मिन्नसत्यसङ्गस्यात्मनः प्रमातृत्वमुपप-द्यते। न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति। तस्मा-दविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणिचेति”। चतुर्थसूत्रभाष्ये च जगतोव्यावहारिकत्वे अन्य-दीयमतं संवादितम् यथा
“गौणमिथ्यात्मनोऽसत्त्वे पुत्र-देहादिबाधनात्। सद्ब्रह्मात्माहमित्येव बोधे कार्य्यं कथंभवेत्?” इत्याक्षिप्य।
“अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृ-त्वमात्मनः। अन्विष्टः स्यात् प्रमातैव पाष्मदोषादिव-र्ज्जितः। देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वात्मऽनिश्चयात्” यथा चलौकिकक्यवहार्य्यपदार्थानां पारसार्थिकसत्त्वाभावेऽपितत्सत्त्वमङ्गीकृत्य सर्वे व्यवहाराः तेषां च व्यवहारि-कसत्त्ववत्त्वम् तथा प्रपञ्चेन समर्थितं खण्डनकृता खण्डनखण्डयाद्ये। यथा
“अथ कथायां वादिनोनियममेतादृशंमन्यन्ते प्रमाणादयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाःसन्तीति कथकाभ्यामभ्युपेयम्। तदपरे न क्षमन्ते। तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्यहेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्यु-गमसाहित्यनियतस्य तस्य प्रवर्त्त यितुमशक्यत्वात्, उतकथकाभ्यां प्रवर्त्त नीयवाग्व्यवहारं प्रति हेतुभावात्, उतलोकसिद्धत्वात्, अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविज-यातिप्रसञ्जकत्वात्। न तावदाद्यः तदनभ्युपगच्छतोऽपि चा-र्व्वाकमाध्यमिकादेर्वाग्विषयविस्तराणां प्रतीयमानत्वात्तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। सो-यमपूर्व्वः प्रमाणादिसत्त्वानभ्युपगमात्मा वाक्स्तम्भनमन्त्रोभवताभ्यूहितो नूनं, यस्य प्रभावाद्भगवता सुरगुरुणा लो-कायतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमानोपदिष्टाः भगवत्पादेन वा वादरायणीयेषु सूत्रेषु भाष्यंनाभाषि। प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचो-भङ्ग्यः तास्तु साधनवाधनक्षमा न भवन्ति तावतेति ब्रूम-इति चेन्न प्रमाणाद्यनभ्युपगम्य प्रवर्त्तितत्वं तदीयसाधनबा-धनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षणयो-गित्वमित्यवश्याभ्युपेयं भवता, येनाभ्युपगम्यापि प्रमाणादीनिप्रवर्त्तिताः मतान्तरानु सारिभिर्व्यवहारा अभ्युपगतप्रमा-णादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरैस्तथाभूता इतिकथ्यन्ते। यदि त्वस्मद्वचसि सद्वचनाभासलक्षण न भवान्दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवताप्र-[Page0536-a+ 38] वर्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्मा-कमादरः। अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्ति-तोऽयं व्यवहार इत्येतावता भवदीयो व्यवहाराभास इत्य-स्माभिरपि वक्तुं शक्यतएव। ननु यदि प्रमाणादीनिन सन्ति व्यवहारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यव-स्था वा कथं स्यात् सर्व्वविधिनिषेधानां प्रमाणाधीन-त्वात्। मैवम्। न ब्रूमोवयं न सन्ति प्रमाणादीनीति,स्वीकृत्य कथारभ्येति। किन्नाम सन्ति न सन्ति वा प्रमा-णादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भ-वता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्त्यता-मिति। अन्यया न सन्ति प्रमाणादीनीति मतमम्माकमा-रोप्य यदिदम्भवता दूषणमुक्तं तदपि न वक्तुं शक्यंकीदृशीं मर्य्यादामालम्ब्य प्रवर्त्तितायां कथायां दूषण-मुक्तं किं प्रमाणादीनां सत्त्वमभ्यु प्रगम्योभाभ्यां वादिभ्यांप्रवर्त्तितायां कथायाम् उतासत्त्वमभ्युपेत्य अथैकेन सत्त्व-मपरेण चासत्त्वमङ्गीकृत्य। न तावदाद्यः अभ्युपगत प्रमा-णादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवकाशात्। द्वितीये तु स्वतो-ऽप्यापत्तेः न तृतीयः तथैव कथान्तरस्य प्रसक्तेः उभयाभ्युपगमानुरोधित्वाच्च कथानियमस्य। अन्यथा स्वाभिप्रायमा-लम्ब्य तेनापि तद्वचसि यत्किञ्चिद्वागात्मनि दूषणेऽभिहितेकस्य जयो व्यवतिष्ठताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियम-भरयन्त्रणा महती स्यात्। तस्मात् प्रमाणादिसत्त्वासत्त्वा-भ्युपगमौदासीन्येन व्यवहारनियमे समयं वद्ध्वा कथायांप्रवर्त्तितायां भवतेदं दूषणमुक्तं युक्तमेव तथा सति स्यात्। योऽयं भवान् स्वाभिप्रायमपि नावधारयितुं शक्तोऽतिदू-रतस्तस्मिन् पराभिसन्धानावधारणप्रत्याशा। अथ वादी-कृत्य दुर्वैतण्डिकं तस्मिन् बाधोऽभिधीयत इत्येव नेष्यतेशिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्य-कारः
“सप्रयोजनमनुयुक्तो यदि प्रतिपद्यत” इत्याहस्म न तुप्रतिपद्यस इति। मैवम् शिष्यादीन् प्रत्यपि चार्ब्बाका-देर्दोषोऽयमित्येवाभिधातव्यम्। कथञ्च तथा स्यात् तस्यकथाप्रवेशाप्रवेशयोस्तद्वाधाक्षमत्वात्कथायामेव हि निग्रहः। नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्त्त नीय-वाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्त्वानभ्युप-गमे निवर्त्तेत नचैवं सम्भवति तथा सति तत्सत्त्वानभ्युप-गन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हेत्वनुपपत्तेः। उक्तवायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपाप-लापो न शक्यत इति। अथ मन्यसे कथकवाग्व्यवहारं[Page0536-b+ 38] प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमःयत्सत्तदभ्युपगम्यतैति स्थितेरिति। मैवम्। कयापि निय-मस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतु-त्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः। कथनात्पूर्ब्बं तत्तत्त्वावधारणं वा परपराजयं वा अभि-लषद्भ्यां कथकाभ्यां यावता विना तदभिलषितं न पर्य्य-वस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेवद्वाभ्यामपि ताभ्यां सम्भाव्यतैति व्यवहारनियमसमयमेवबध्नीतः सच प्रमाणेन तर्केण च व्यवहर्त्तव्योवादिनाप्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहा-न्याद्यन्यतमंनिग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादनेप्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथा द्वितीयस्यैव। तादृशेतरौ चजेतृतया व्यवहर्त्तव्यौ प्रामाणिकपक्षस्तात्त्विकतया व्यवहर्त्तव्यइत्यादिरूपः। अतएवं व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यःतथा च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्तैतिप्र-माणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशम्। द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्था-जयमूलत्वेन व्यवहारनियमस्य स्वेच्छयैव परिगृहीतत्वात्नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरि-शुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फलविप्लवापत्तिः स्यात्। अविद्याविद्यमानानादिपारम्पर्य्यायातस्य लोकव्युत्पत्तिगृ-हीतसंवादस्य च तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसि-द्धिशुद्धत्वात्। नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गी-कर्त्तुमुचिता। तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युप-पत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियम-व्यतिरिक्तकथाप्रवृत्तिं विना तत्त्वनिर्ण्यस्य जयस्य वाभि-लषितस्य कथकयोविपर्य्यवसानात्। नापि तृतीयः लोक-व्यवहारो हि प्रामाणिकव्यवहारो वा स्यात् पामरादिसा-धारणव्यवहारो वा। नाद्यः। विचारप्रवृत्तिमन्तरेण तस्यदुर्न्निरूपत्वात् तदर्थमेव च पूर्ब्बं नियमस्य गवेषणात्। नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवतास्वीकर्त्तव्यतापातात्। पश्चात्तद्विचारबाध्यतया नाभ्युपेय-तैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या भवि-ष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इतिलोकव्यहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्नभवति। नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्यव्यवहारनियमः कथायामालम्ब्यते। तस्यैव प्रमाणादि-सत्त्वासत्त्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात्। तस्य[Page0537-a+ 38] यदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानःप्रसङ्गः। स्यादेतन्नियतवाग्व्यवहारक्रियासमयबन्धेन कथांप्रवर्त्त यतापि व्यवहारसत्ताभ्युपगन्तव्या नहि सत्तामन-भ्युपगम्य व्यवहारक्रियाभिधातुं शक्या। क्रिया हिनिष्पादना असतः सद्रूपताप्रापणमिति यावत् प्रमाणैर्व्यव-हर्त्तव्यमिति नियमबन्धने प्रमाणानां कारणभावो नियतःतद्भावश्च नियतपूर्ब्बसत्तारूपं कारणत्वम् प्रमाणानामना-दाय न पर्य्यवस्येत्। दूषणानाञ्चास्तित्वेन भङ्गावधारण-नियमबन्धने साधनाङ्गानां व्याप्त्यादीनां सत्त्वेन तद्विषयस्यतत्त्वरूपताव्यवहारनियमनादौ च कण्ठोत्थमेव तस्य तस्यसत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते प्रमाणादीनां सत्ता-मनभ्युपगम्य कथारम्भाः शक्यन्त इति। मैवम्। एभि-रपि बाधकैः कथायामारब्धायामेवाभिमतस्य प्रसाधनीयत्वेपूर्ब्बोक्तबाधायामनिस्तारात्। न च व्यवहारनियमस्यस्वेच्छाकृतस्यैव प्रमाणादिसत्तास्वीकारपर्य्यवसायितयानायं दोषः स्यात्। यतः सत्ताज्ञानस्य तत्राङ्गत्वंन तु सत्तायाः। तत्र किं सत्तावगममात्रात्स-त्ताभ्युपगम्येति मन्यसे अबाधितात्तदवगमाद्वा। न तावदाद्यः मरुमरीचिकादौ जलरूपतासद्भावाभ्युप-गमप्रसङ्गात्। द्वितीयेऽपि किंवादिप्रतिवादिमध्यस्थमात्रस्यतस्यापि किं कथाकालमात्रएव बाधितत्वावगमाभावात्। अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात्। नाद्यः अतिप्रसङ्गात् पुरुषत्रयावगतस्य एकक्षणावगतस्य च पु-रुषान्तरेण तेनापि क्षणान्तरे बहुलं बाध्यतादर्शनादिति। नचासावर्थोऽसन्नपि द्वित्रादिपुरुषमात्रपूर्ब्बजाततत्प्रतीत्यनु-रोधाद्वाधदर्शने सत्यपि तथैव सन्नित्यभ्युपगम्यते। तस्माद्-द्वितीयः पक्षः परिशिष्यते यत्र सर्व्वप्रकारेण बाधितत्वंनास्ति तत्सदित्यभ्युपगन्तव्यम्। तदित्थं यदि नाम वादि-घ्रतिवादिमध्यस्थमात्रस्य दूषणादिसत्तावगमः कथाकाल-मात्रे तैरबाध्यमानः कथाङ्गत्वेनाभ्युपेयते किमायातंसर्व्वप्रकाराबाधिततत्तत्सत्तावगमायत्ततत्तत्सत्त्वाभ्युपगमक-थानङ्गताङ्गीकारस्य। कतिपयप्रतिपत्तृकतिषयकालतथात्वा-वगमादेव च प्रायेण लौकिकव्यवहारः प्रतोयते तादृश-श्चायं सत्त्वावगमः कथाङ्गमेतत्तदुच्यते व्यवहारिकीं प्रमाणादिसत्तामादाय विचारारम्भ इति। तस्माद्यादृग्व्यवहारनियमः कृतः तन्मर्य्यादानेन नोल्लङ्घितेति। यद्वादिवाग्-व्यवहारे मध्यस्थावगमः स विजयते यस्य च वचसि नैवंतस्यावगमस्तस्य पराजयः। यत्र वाद्युक्तनिग्रहसत्त्वावगमः[Page0537-b+ 38] स निगृहीतः तदितरस्तु न तथेत्यादिनियम एव कथार-म्भाय ग्राह्यः। अनेन नियमेन व्यवहर्त्तव्यमित्यस्य ह्यय-मर्थोऽनेन नियमेनोक्तमनेन नेति मध्यस्थावगमस्य विषयीभवितव्यमिति। नच वाच्यमन्ततस्तदवगमस्यापि सत्ताभ्यु-पेयेति। तस्यापि सत्ताचिन्तायां तत्सत्तावगमान्तरस्यैवशरणत्वात्। नचैवमनवस्था तदनुसरणावश्यम्भावानङ्गी-कारात्। एवं त्रिचतुरज्ञानजन्मनोनाधिकमतिरितिन्यायात्। नचान्तिमासत्त्वे पूर्ब्बपूब्बप्रवाहासत्त्वापत्तिस्तथाचावगममादायापि न निस्तार इति वाच्यम्। अस्त्वेवं हि तथापि त्रिचतुरज्ञानकक्षागवेषणमात्रविश्रा-न्तेन विचारेण ततःपरमननुसरणरमणीयेनैव समयं बद्ध्वाकथाया मिथःसम्प्रतिपत्त्या प्रवर्त्तनात्। अन्यथा प्रमाणा-दिसत्ताभ्युपगमेऽपि ज्ञानानवस्थायादुष्परिहरत्वात्। नचवाच्यं मत्पक्षे स्वरूपसता ज्ञानेन व्यवहारस्य चरितार्थयितु” शक्यत्वात् न ज्ञानस्य परम्परानुसरणमुचितं नत्वेवं त्वत्पक्षेज्ञानस्वरूपसत्ताङ्गीकारप्रसङ्गादिति। स्वरूपसत्तामादायापिपरिहरतोऽनवस्थाप्रसङ्गस्य स्वप्रकाशप्रस्तावे वक्तव्यत्वात्। यथा त्वत्पक्षे स्वरूपसदविशेषेऽपि ज्ञानस्वरूपसत्तैव परंव्यवहारोपपादिका न घटादिसत्ता। एवमेवासत्ताऽविशेषेऽपिज्ञानमेवासद्व्यवहारोपपादकं नान्यत्। असच्चोपपादकञ्चेतिव्याहतमिति चेन्न सदुपपादकमिति कुतो न व्याहतम्। नहि सदुपपादकमसच्च नेति क्वचिदावयोः सिद्धम्। ननुतदसत्ताऽविशेषात्तत्कार्य्यस्यान्यदापि प्रसङ्गः, न कार्य्यस्या-द्यसत्ताक्षण इवान्यदापि सामग्रीसत्त्वाविशेषात्तवापि किंनान्यदा कार्य्यजन्म। अथ न मम तदानीन्तनं सामग्री-सत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततः प्राक्सामग्रीसत्त्वं तथादर्शनात्। तर्हि ममापि कालान्तरस्थमपितदसत्त्वं तदातनकार्य्यजन्मनोनियामकं तथादर्शनादेव। मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्मनियामकमितिचेत् न समसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनिया-मकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदाकार्य्यनियमोऽभ्युपेयः तथादर्शनादित्येव मन्तव्यम्। तथाच समः समाधिः। तथापि कार्य्यजन्मकालस्य कोविशेषः। कार्य्यजन्मैव। अन्यथा यद्विशेषान्तरं तदपि विशेषान्तर-वतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्यवस्येत्। तथापितत्कालस्यानुगतं किं रूपमिति चैन्न रूपान्तरवतोपि किंरूपमित्यपि पर्य्यनुयोगस्यानुवृत्तेः। किञ्च(
“अन्तर्भावितसत्त्वञ्चेत्कारणं तदसत्ततः। [Page0538-a+ 38] नान्तर्भावितसत्त्वञ्चेत्कारणं तद सत्ततः। ”( तथाह्यन्तर्भूतसत्वे यदि कारणत्वं तदा स्व-विशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति। विशिष्ट-स्यार्थान्तरत्वेऽपि च स्वस्मिन् स्ववृत्तिव्यतिरेक-वत् स्वविशिष्टे स्ववृत्तिव्यतिरेके नियमदर्शनात्न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्याविशिष्टवृत्त्य-भ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्व्वथैवकारणमसत्पर्य्यवस्यति। अपरापरसत्तानिवेशने वा पर्य्य-वसानमेव। न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्र-सारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमन-निबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति। सत्त्ववृद्धि-मिष्टवतो मूलमपि ते नष्टमिति कष्टतरम्। न च स्वरूप-सत्तोपगमाय स्वस्ति भिन्नानप्यनुगतबुद्ध्याद्याधानपदेऽ-भिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत। मा-भूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कारणतांकथमनुगमयितासीति। किञ्च स्वरूपसत्त्वं स्वरूपात् घ-टाद्यात्मनो नाधिकमसतोपि स्वरूपं स्वरूपमेव न ह्य-मन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि नस्यात् असतोऽघटादित्वात्। अथ सदपि सत्तामनन्तर्भाव्यकारणं तदानीमसदपि ततथास्तु सत्तासत्तयोः कारणकोट्यप्रवेशाविशेषात्। अथ न सत्ता कारणकोटिनिविष्टाकिन्तु कारणत्वं सत्त्वं नियतपूर्ब्बसत्तां हि कारणताम्म-न्यैति मन्यसे, तर्हि मत्पक्षे सैव कारणतास्तु तर्हि कार-णसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न भा-वानवबोधात् सत्तामसतीमभ्युपगच्छतापि सत्ता मयाभ्युपगतैव। अन्यया कासावसतीति त्वमपि किं सत्तान्तत्स-त्तामन्तर्भाव्य कारणत्वमिच्छसि। नत्वेवं पूर्व्ववत् क्वापिसत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात्। असत्ताऽविशेषात् कारणनियमः कथं स्यादिति चेन्न सत्ताविशेषेऽपितुल्यत्वात्। सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्यवा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं सोऽप्यनियतोयदा कारणाभावस्तदा कार्य्याभावावश्यम्भावानभ्युपगमात्नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्योत्पादात्। अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात् अन्वयोनास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् अन्वयस्यापि स-त्तान्तर्भावने कथितदोषापत्तेः। एतेन
“आशामोदकतृप्रा ये ये चोपार्ज्जितमोदकाः। रसवीर्य्यविपाकादि तेषां तुल्यं प्रसज्यते”॥ [Page0538-b+ 38]( इत्यस्यापि बाधकत्वमाशामोदकायते। सत्तान्त-र्भावानन्तर्भावाभ्यां प्रत्यादेशात् आशामोदकादिनापि चरुसवीर्य्यविपाकादिजननात्। तदसत्कथं कार्य्यं स्यादितिचेन्न सत्तामन्तर्भाव्य कार्य्यत्वोपगमे कारणवत्कार्य्योपि उ-क्तदोषस्यानन्तर्भावे वा ऽविशेषस्य पूर्ब्बवदावृत्तेः तस्मात्।
“पूर्ब्ब सम्बन्धनियमे हेतुत्वे तुल्यएव नौ। ”
“हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा। ” आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयंप्राक्सत्त्वनियमस्य विशेषस्यानभ्युपगमात् असत्त्वस्यचाविशेषादिति चेन्न इदमस्मान्नियतं प्राक्सदितिबुद्ध्या-विशेषात्। भ्रान्त्यैवंबुद्धिगोचरेऽतिप्रसङ्ग इति चेन्नयादृश्या हि धिया त्रिचतुरकक्षाबाघानवरोधविश्रान्तयावस्तुसत्त्वनिश्चयस्ते, तादृश्येव विषयीकृतस्य ममापि कार-णतानिश्चयः। केवलन्ततः परास्वपि कक्षासु बाधात्पूर्ब्बपूर्ब्बभ्रान्तिसम्भवेन न तावता सत्त्वावघारणं वयंमन्यामह इति विशेषः। परदर्शनसिद्धान्तस्य भूरिकक्षा-धाविनोऽपि ततः परकक्षाबाध्यमानत्वेनातथाभावोपगमात्अन्यथैकदर्शनपरिशेषः स्यात्। एतेन सत्त्वाविशेषात्कथं कस्यचित् पक्षस्य त्रिचतुरकक्षाधावित्वमास्तामि-त्यपि निरस्तम्। अनेवंबुद्धिविषयतादशायां कोविशेष इतिचेत् यदा कदापि तादृशबुद्धिविषयतैव। अन्यथाकथय कथमन्यदा तादृशबुद्धिविषयतया अन्यदा सत्त्वंस्यात्। तदा सत्त्वमन्यदास्थेन गृह्यत इति चेत् अन्यकालि-कमेव तर्हितत्तदातनकारणत्वोपयोगीति समानम् तदेतत्संवित्तिसत्त्वमिति गीयते असती सा न विशेषिका सतीसानेष्टेत्यभिसन्धानेन द्वैतापत्तेरि संवित्तिरपि सती न वेतिपृच्छन् प्रतिवक्तव्यः ज्ञानं तावद्व्यवहारोपपादकतया द्वाभ्याम-प्यनुमतं तस्यापि जिज्ञासायां त्रिचतुरकक्षाविश्रान्तग्वेषणस्ययदि सत्तोपपन्ना भविष्यति तदा सत्ता, तेनेदमुपपादितम्भ-विष्यति। अथासत्ता तस्य पर्य्यवस्यति तदा असत्तैव तेनेदमुपपाद्यत इति स्वीकर्त्तव्यं भ्रमविषयेणेव भ्रमे विशिष्ट-ताव्यवहारः। अविचार्य्यैव तावत्तस्य सदसत्त्वं विचारआरब्धव्यः। अन्यथा प्रथममेव मतिकर्द्द मे कथारम्भणमश-क्यमापद्येत। स्वीकृतञ्च भवतापि भविष्यदादिविषये विज्ञानेविशिष्टव्यवहारनिदानत्वमसतो विषयस्य, कारणशक्तेश्चविशेषकमसदेव कार्य्यम्। न च कालान्तरसम्बन्धिनी सत्तातस्या एकत्रान्यत्र नान्यदापीति वैधम्यमेतयोरपीतिवक्तव्यम् विशिष्टव्यवहारप्रवृत्तिसमये द्वयोरप्यसत्ताऽविशेषात्[Page0539-a+ 38] प्रयोजनानुपयुक्ते काले तस्य स्वरूपतोऽवस्थानं पाटच्चरलु-ण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुहरति तथापिकालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्चव्यवच्छिन्नं, तद्विज्ञानेन स्वभावबलात् स्वविशेषणत्वेनोपादी-यते। नत्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतोविशेषणतश्च व्यवच्छिन्नतयानङ्गीकारात् कुत्र स्वभावतो-विज्ञानं सम्बन्धि निरुच्यते न। उक्तमत्र असतोऽपि तदेव रूपंतस्य नियतस्व रूपस्यैव नियतविशेषणस्यैवासत्त्वादन्यथाति-प्रसङ्गात् भ्रान्तिविषयेण दत्तोत्तरत्वाच्चेत्यलमतिविस्तरेण”। खण्डनखण्डखाद्यम्।

"https://sa.wiktionary.org/w/index.php?title=असत्ख्याति&oldid=489798" इत्यस्माद् प्रतिप्राप्तम्