असदृशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
असदृशः, त्रि, (न सदृशः । नञतत्पुरुषः ।) अ- तुल्यः । अनुपमेयः । यद्यसदृशी स्तुतिरिति पुष्प- दन्तः ॥ यथा । ब्रह्मवैवर्त्ते । “वित्तशाठ्यमकुर्व्वाणः सम्यक्फलमवाप्नुयात् । कुर्व्वाणो वित्तशाठ्यन्तु लभते ऽसदृशं फलम्” ॥ इति तिथ्यादितत्त्वं ॥
