सामग्री पर जाएँ

असनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असनः, पुं, वृक्षविशेषः । पियाशाल इति ख्यातः । तत्पर्य्यायः । महासर्ज्जः २ सौरिः ३ बन्धूकपुष्पः ४ प्रियकः ५ वीजवृक्षः ६ नीलकः प्रियसालकः ८ । (“प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता” । इति शिशुपाले ।) अस्य गुणाः । कटुत्वं । उष्णत्वं । तिक्तत्वं । वातार्त्तिदोषगलदोषरक्तमण्डलनाशित्वं । सारकत्वञ्च । इति राजनिर्घण्टः ॥ वृक्षभेदः । आसन इयि ख्यातः । तत्पर्य्यायः । अजकर्णः २ वनेसर्ज्जः ३ महासर्ज्जः ४ । इति रत्नमाला ॥ अस्य गुणाः । कफपित्तनाशित्वं । इति राज- वल्लभः । (“वीजकः पीतसारश्च पीतशालक इत्यपि । बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥ वीजकः कुष्ठवीसर्पश्वित्रमेहगुदक्रिमीन् । हस्तिश्लेष्मास्नपित्तञ्च त्वच्यः केश्यो रसायनः” ॥ इति भावप्रकाशेऽस्य पर्य्यायगुणौ कथितौ ॥)

"https://sa.wiktionary.org/w/index.php?title=असनः&oldid=114609" इत्यस्माद् प्रतिप्राप्तम्