सामग्री पर जाएँ

असहनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असहनः, पुं, स्त्री, (न सहनः । नञ्समासः ।) शत्रुः । इति हेमचन्द्रः ॥ (अधीरः । असहिष्णुः । यथा, -- “कस्मात् प्राप्य तिरस्क्रियामसहनोऽप्यस्थादिति प्रस्तुते” । इति महावीरचरिते । “प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ” । इति रत्नावल्यां । क्षमाराहित्यम् । यथा, साहित्य- दर्पणे । “अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेप्यसहनं तत्तेजः समुदाहृतम्” ॥ इति ॥)

"https://sa.wiktionary.org/w/index.php?title=असहनः&oldid=114645" इत्यस्माद् प्रतिप्राप्तम्