सामग्री पर जाएँ

असाध्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असाध्यम्, त्रि, (न साध्यं साधयितुमशक्यम् ।) असा- धनीयं । साधनायोग्यं । अशक्यं । असाधितव्यं । यथा, -- “सहजानि त्रिदोषाणि यानि चाभ्यन्तरा वलिं । जायन्तेऽर्शांसि संगृह्य तान्यसाध्यानि निर्द्दिशेत्” ॥ इति भावप्रकाशः ॥ अपि च । “य इदं प्रपठेन्नित्यं दुर्गानामशतात्मकं । नासाध्यं विद्यते तस्य त्रिषु लोकेषु पार्व्वति” ॥ इति विश्वसारतन्त्रे दुर्गाशतनामात्मकं स्तोत्रं ॥ (“साध्या याप्यत्वमायान्तियाप्याश्चासाध्यतां तथा । घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्” । “अमर्म्मोपहिते देशे शिरासन्ध्यस्थिवर्ज्जिते । विकारो योऽनुपर्य्येति तदसाध्यस्य लक्षणं” ॥ इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=असाध्यम्&oldid=114651" इत्यस्माद् प्रतिप्राप्तम्