सामग्री पर जाएँ

असारम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असारम्, त्रि, (नास्ति सारो यस्य ।) साररहितवस्त । स्थिरांशशून्यं । तत्पर्य्यायः । फल्गु २ । इत्य- मरः ॥ निःसारं ३ निष्फलं ४ । इति शब्दरत्ना- वली ॥ वार्त्तं ५ । इति जटाधरः ॥ (यथा -- मनुसंहितायां ८ । २०३ । “नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरे न तिरोहितम्” । “असारे खलु संसारे त्रीणि साराणि भावयेत्” । इति हितोपदेशे ॥ “निदर्शनमसाराणां लघुर्बहुतृणं नरः ।” इति माघे ॥ “बहूनामप्यसाराणां समवायो बलावहः ।” इति पञ्चतन्त्रे ॥ “धिगिमां देहभृतामसारताम् ।” इति रघुवंशे ॥ “अतो विपरीतास्त्वसाराः” ॥ इति चरकः ॥)

असारम्, क्ली, नास्ति सारो यस्य ।) अगुरु । इति रा- जनिर्घण्टः ॥ (अगुरुशब्देऽस्य विशेषो ज्ञेयः ॥)

"https://sa.wiktionary.org/w/index.php?title=असारम्&oldid=114659" इत्यस्माद् प्रतिप्राप्तम्