सामग्री पर जाएँ

असिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असिः, स्त्री, (अस्यते अवगाहनेन पापानि दूरी- करोति या । अस + इन् ।) नदीविशेषः । सा च काशीदक्षिणदिक्स्थिता । यथा । “तस्मात् विश्वेश्वराज्ञैव काशीवासेऽत्र कारणं । असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते ॥ वाराणसीति विख्याता तदारभ्य महामुने । असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका ॥ वाराणसीह करुणामयदिव्यमूर्त्ते- रुत्सृ ज्य यत्र तु तनुं तनुभृत् सुखेन । विश्वेशदृङ्महसि यत् सहसा प्रविश्य रूपेण तां वितनुता पदवीं दधाति ॥ जातो मृतो बहुषु तीर्थवरेषु ये त्वं जन्तोर्न जातु भवशान्तिरभून्निमज्य । वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात् स्मरशासनः स्यात्” ॥ इति काशीखण्डे ३० अध्यायः ॥

असिः, पुं, (असतीति । अस दीप्तौ इनि ।) अस्त्र- भेदः । खा~डा तरवाल इत्यादि भाषा । तत्प- र्य्यायः । खड्गः २ निस्त्रिंशः ३ चन्द्रहासः ४ रिष्टिः ५ कौक्षेयकः ६ मण्डलाग्रः ७ करपालः ८ कृपाणः ९ इत्यमरः ॥ प्रबालकः १० भद्रात्मजः ११ रिष्टः १२ ऋष्टिः १३ धाराविषः १४ कौक्षेयः १५ तरवारिः १६ तरवाजः १७ कृपाणकः १८ करवालः १९ कृपाणी २० शस्त्रः २१ । इति शब्दरत्नावली ॥ विषसनः २२ । इति त्रिकांण्ड- शेषः ॥ (“पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्तेन भीषणां तामयोजयत्” ॥ इति रघवंशे १२ । ४० ॥ “स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥” इति मनौ ७ । १९२ ॥) तस्य स्तुतिर्यथा । “असिर्व्विषसनः खड्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्म्मपालो नमोऽस्तु ते ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः । पिता पितामहो देवस्त्वं मां पालय सर्व्वदा ॥ नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः । भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥ इयं येन धृता क्षौणी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः” ॥ इति वृहन्नन्दिकेश्वरपुराणीयदुर्गोत्सवपद्धतिधृत- वाराहीतन्त्रं ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असिः [asiḥ], [अस्यते क्षिप्यते; अस्-इन् Uṇ.4.139]

A sword

A knife used for killing animals.

[अस्यति सेवनेन पापानि] N. of a river to the south of Benares.

Breath (श्वास). -सि ind. The 2nd pers. sing. of the present of अस् to be, used as an indeclinable in the sense of 'त्वम्' thou; as in कृतवानसि विप्रियं न मे Ku.4.7 (where however असि may be taken as a verb). -Comp. -असिind. sword against sword. -गण्डः a small pillow for the cheeks; (असिः क्षिप्तो गण्डो यत्र Tv.). -चार्य exercise or practice of arms; Mb.1. -जीविन् a. one who earns his livelihood by means of swords, a soldier fighting for wages. -दंष्ट्रः, दंष्ट्रकः the marine monster makara or crocodile (painted on the banner of Kāmadeva).-दन्तः a crocodile. -धारा the edge of a sword; सुरगज इवं दन्तैर्भग्नदैत्यासिधारैः R.1.86,41. -धाराव्रतम् [असिधारायां स्थितिरिव दुष्करं व्रतम्]

(according to some) the vow of standing on the edge of a sword; (according to others) the vow of keeping constant company with a young wife and yet steadily resisting the temptation of sexual intercourse with her; यत्रैकशयनस्थापि प्रमदा नोपभुज्यते । असिधाराव्रतं नाम वदन्ति मुनिपुंगवाः ॥ or शयने मध्ये खड्गं विधाय स्त्रीपुंसौ यत्र ब्रह्मचर्येण स्वपतस्तत्; or युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् । अन्तर्निवृत्तसङ्गः स्यादसिधाराव्रतं हि तत् Yādava.

(hence fig.) any hopelssly difficult task; सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् Bh.2.28,64; असिधारा- व्रतमिदं यदरिणा सह संवासः Pt.3. -धावः, -धावकः an armourer, furbisher. वाद्यविद्याविदग्धाश्च लुब्धकाश्चासिधावकाः । Śiva. B.31.21. -धेनुः, -धेनुका [असिर्धेनुरिव यस्याः वा कप् or असेर्धेनुका (धेनुशब्देन स्त्रीवाचकत्वं संदृश्यते)] a knife; Vikr.4.69; cf. स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका । Ak.2.8.92. -पत्र a. having sword-shaped leaves; जातं तमात्मन्यसिपत्रवृक्षम् R.14.48.

(त्रः) the sugar-cane.

a kind of tree which grows in the lower world. (Mar. त्रिधारी निवडुंग.)

a hell paved with swords.

(त्रम्) the blade of a sword.

a sheath, a scabbard. ˚वनम् a hell where the trees have leaves as sharp as swords. असिपत्रवनं चैव निशितं क्षुरसंवृतम् (ददर्श) Mb.18.2. 23; असिपत्रवनं चैव लोहदारकमेव च । Ms.4.9;

पत्रकः a sugar-cane.

white दर्भ grass, Bhāg.5.26.7.-पथः, -थम् the course of the breath. -पुच्छः, -पुच्छकः the Gangetic porpoise; see शिशुमार. -पुत्रिका, -पुत्री a knife (असेः पुत्रीव). -मेदः [असिरिव तीक्ष्णो मेदो निर्यासो यस्य] the fetid Khadira. (विट्खदिर; Mar. शेण्याखैर). -लता the blade of a sword; ददृशुरुल्लसितासिलतासिताः Śi.6.51.-हत्य a. to be killed with a sword. (-त्यम्) fighting with knives or swords. -हस्तः killing by right hand sword; (असिहस्तो दक्षिणबाहुविभ्रान्तच्छेदः । इति नीलकण़्ठटीका); असिहस्तापहस्ताभ्यां तेषां गात्राण्यकृन्तत Mb.6.9.45. -हेतिः [असिर्हेतिः साधनमस्य] a swordsman.

"https://sa.wiktionary.org/w/index.php?title=असिः&oldid=213187" इत्यस्माद् प्रतिप्राप्तम्