सामग्री पर जाएँ

असितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असितः, पुं, (न सितः शुक्लः । नञ्समासः ।) कृष्ण- वर्णः । तद्विशिष्टे त्रि । (यथा पुष्पदन्ते ॥ “असितगिरिनिभं स्यात् कज्जलं सिन्धुपात्रम्” । “चकाशे विनिविष्टेन स सन्ध्येव निशाऽसिता” । इति रामायणे ॥) इत्यमरः ॥ शनिग्रहः । कृष्ण- पक्षः । इति हलायुधः ॥ (स्वनामख्यातः सूर्य्य- वंशोद्भवो भरतपुत्त्रो राजा । यथा, रामायणे -- “भरतात् तु महातेजा असितो समजायत” । स्वनामख्यातः कश्चित् व्यासशिष्यो मुनिः । यथा हरिवंशे । “असितस्यैकपर्णा तु देवलस्य महात्मनः” । पर्ब्वतभेदः । यथा भारते, -- “तत्र पुण्यंहृदः ख्यातो मैनाकश्चैव पर्ब्बतः । बहुमूलफलोपेतस्त्वसितो नाम पर्ब्बतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=असितः&oldid=114670" इत्यस्माद् प्रतिप्राप्तम्