असिद्धिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
असिद्धिः, स्त्री, (न सिद्धिः । नञ्समासः ।) अनि- ष्पत्तिः । न्यायमते सा त्रिविधा । पक्षासिद्धिः १ यथा काञ्चनमयपर्ब्बतो वह्निमान् इत्यादिः १ । स्वरूपासिद्धिः २ यथा, पर्ब्बतः काञ्चनमय- वह्निमान् इत्यादिः २ । व्याप्यत्वासिद्धिः ३ यथा, पर्ब्बतो वह्निमान् ज्वलत्वादित्यादिः ३ । (यथा भाषापरिच्छेदे । “आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यतासिद्धिरपरा स्यादसिद्धिरतः स्त्रिधा ॥ पक्षासिद्धिर्यत्र पक्षो भवेन्मनिमयो गिरिः । ह्रदो द्रव्यं घूमवत्वादत्रासिद्धिरथापरा ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
असिद्धिः [asiddhiḥ], f.
Imperfect accomplishment, failure; सिद्धसिद्धयोः्य्योः समो भूत्वा Bg.2.48;4.22.
Want of ripeness.
Non-accomplishment (in Yoga Phil.).
(In logic) Conclusion not warranted by the premises.
Want of resolution.
