असिपत्रवनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
असिपत्रवनम्, क्ली, (असिरिव तीक्ष्णं पत्रं यस्य तादृशं वनं ।) नरकविशेषः । “पत्रैर्यत्र विदा- र्य्यते” । इति मनुः ॥ (“यस्त्विह वै निजपथादना- पद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं प्रवेश्य कषया प्रहरन्ति तत्रासावितस्ततो धावमानः उभयतोधारै स्तालवनासिपत्रैश्छिद्यमानसर्व्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्म्महा पाषण्डानुगमनफलं भुङ्क्ते” । इति श्रीभागवते ॥ “अशिपत्रवनं नाम नरकं शृणु चापरम् । योजनानां सहस्रं वै ज्वलदग्न्यास्तृतावनिः ॥ तप्ता सूर्य्यकरैश्चण्डैः कल्पकालाग्निदारुणैः । प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ॥ तन्मध्ये च वनं शीतं स्निग्धपत्रं विभाव्यते । पत्राणि यत्र खङ्गानि फलानि द्विजसत्तम” ॥ इति मार्कण्डेयपुराणे ।)
