अस्त्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्त्रम्, क्ली, (अस्यते क्षिप्यते यत् । अस् + ष्ट्रन् ।) प्रहारयोग्यद्रव्यमात्रं । हातियार इति भाषा । तत्पर्य्यायः । आयुधं २ प्रहरणं ३ शस्त्रं ४ । इत्य- मरः ॥ खङ्गः ५ । धनुः ६ । इति मेदिनो । क्षेपन- योग्यवाणादि । इति रायमुकुटः ॥ (“प्रयुक्तमप्यस्त्र- मितो वृथा स्यात्” । “प्रत्याहतास्त्रो गिरीश- प्रभावात्” । इति च रघुः ॥) तन्निरूपनं यथा, -- “दण्डसाध्यं यतो राज्यं स दण्डः शास्त्रसंश्रितः । अस्त्राणि भूमिपालानां निरूप्यन्ते ततः क्रमात्” ॥ अथ गणना । “खङ्गचर्म्म धनुर्व्वाणौ शल्वभल्वौ तथापरौ । अर्द्धचन्द्रश्च नाराचः शक्तियष्ठी तथा परे ॥ परशुश्चक्रशूले च परिघश्चैवमादयः । अस्त्रभेदाः समुद्दिष्टाः श्रीमद्भोजमहीभुजा” ॥ वात्स्यस्तु । “अस्त्रन्तु द्विविधं प्रोक्तं निर्म्मायं मायिकन्तथा । खङ्गादिकन्तु निर्म्मायं मायिकं दहनादिकं ॥ दहनोऽथ जलं काष्ठं लोष्ट्रं शब्दादयस्तथा । तप्ततैलादिकञ्चैव मायिकस्यास्त्रमुच्यते ॥ खड्गादीनान्तुगणना पूर्ब्बमेव निदर्शिता । अस्त्रात्मनैव निर्द्दिष्टः कवचादिरपीष्यते” ॥ इति युक्तिकल्पतरुः ॥ * ॥ स्वड्गचर्म्मादि परीक्षा तत्तच्छब्दे द्रष्टव्या ।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्त्रम् [astram], [अस्यते क्षिप्यते अस् ष्ट्रन् Uṇ.4.158.]
A missile; a weapon in general; प्रयुक्तमप्यस्त्रमितो वृथा स्यात् R.2.34; प्रत्याहतास्त्रो गिरिशप्रभावात् 2.41;3.58; अशिक्षतास्त्रं पितुरेव R.3.31 the science of missiles. महर्षेरग्निवेशस्य सकाशमह- मच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदचिकीर्षया ॥ Mb.1.131.4. धनुर्वेद- संहिता mentions various kinds of missiles (179-82) as ब्रह्मास्त्र, ब्रह्मदण्डक, ब्रह्मशिरस, पाशुपत, वायव्य, आग्नेय, नारसिंह &c.
An arrow; sword.
A bow. -Comp. -अ (आ) गारम् an arsenal, armoury. -आघातः a wound, a cut (made by a weapon). -आहत a. struck, wounded, killed. -कष्टक [अस्त्रं कण्टक इव] an arrow. -कारः, -कारकः, -कारिन् a maker of weapons. -क्षेपक a. shooting arrows. -ग्रामः A heap or collection of different missiles or weapons; Ve. -चिकित्सक a. surgeon. -चिकित्सा surgery. -जित्m. N. of a plant. -जीवः, -जीविन्. m. -धारिन् m. a soldier, professional warrior. -धारणम् the bearing of arms.-निवारणम् the warding of a weapon. -पातिन् A gunner; अस्त्रपातिभिरावृतम् Śukra.4.137. -भृत् m. A shooter; Rām.5. -मन्त्रः a Mantra to be repeated in discharging or withdrawing a missile; संमोहनं नाम सखे ममास्त्रं प्रयोग- संहारविभक्तमन्त्रम् R.5.57,59. -मर्जः, -र्जकः a furbisher.यन्त्रम् A kind of missile (कंचिन्मर्मदेशमाक्षिप्य येन शत्रोरुत्क्षेपणमपक्षेपणं च क्रियते तदस्त्रयन्त्रम् । इति नीलकण्ठः) Mb.9.57.18. -युद्धम् fighting with weapons. -लाघवम् dexterity in wielding or throwing missiles. -विद् a. skilled in the science of arms. -विद्या, -शास्त्रम्, -वेदः the art of science of throwing missiles, military science, science of arms; अस्त्रवेदमधिगम्य तत्त्वतः Ki.13.62, U.6.9.-वृष्टि f. a shower of missiles. -शस्त्रम् all sorts of weapons. -शिक्षा military exercise.
सायकः an iron arrow.
the नाराच missile. -हीन a. unarmed.
