सामग्री पर जाएँ

अस्थिसंहारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्थिसंहारः, पुं, (अस्थीनि संहरति योजयति । अस्थि + सं + हृ + अण् ।) वृक्षविशेषः । हाडञ्च हाडजोडा इति भाषा । तत्पर्य्यायः । वज्रवल्ली २ ग्रन्थिमान् ३ कुलिशं ४ अमरः ५ । इति रत्नमाला ॥ हस्तिशुण्डी ६ वनालिका ७ । इति हारावली । अस्य गुणाः । वलास्थिभग्नहित- कारित्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥ यथा, -- “ग्रन्थिमानस्थिसंहारी वज्राङ्गी चास्थिशृङ्खला । अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक् ॥ उष्णः सरः कृमिघ्नश्च दुनामघ्नो ऽक्षिरोगजित् । रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः ॥ काण्डं त्वग्विरहित मस्थिशृङ्खलाया माषार्द्धं द्विदलमकञ्चुकं तदर्द्धं । संपिष्टं सुतनु ततस्तिलस्य तैले संपक्वं वटकमतीव वातहारि” ॥ इति भावप्रकाशः ॥ (“अस्थिभग्नेऽस्थिसंहारो हितोवल्योऽनिलापहः” इति वैद्यकद्रव्यगुणः ।)

"https://sa.wiktionary.org/w/index.php?title=अस्थिसंहारः&oldid=114825" इत्यस्माद् प्रतिप्राप्तम्