सामग्री पर जाएँ

अस्वतन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वतन्त्रः, त्रि, (न स्वतन्त्रः । नञ्समासः ।) पर- तन्त्रः । पराधीनः । इति जटाधरः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वतन्त्र¦ त्रि॰ विरोधे न॰ त॰। स्वाधीनभिन्ने पराधीने।
“अस्वतन्त्रा स्त्री पुरुषप्रधाना इति” वसि॰। तस्या अस्वा-तन्त्र्यञ्च तत्रैव दर्शितम्
“पिता रक्षति कौमारे भर्त्तारक्षति यौवने। पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्य-मर्हति” तथा पुत्रादीनामपि जन्माधीनं स्वत्वमिति स्थावरधनादेर्यथेष्टविनियोगे पित्रादेरस्वातन्त्र्यमिति मिताक्षरायाम्व्यवस्थापितं यथा
“तस्मात्पैतृके पैतामहे च द्रव्ये जन्म-नैव स्वत्वम्। तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनि-केषु प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यति-रिक्त द्रव्यविनियोगे स्वातन्त्र्यमिति स्थितम्। स्थावरे तुस्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यमेव।
“स्थावरंद्विपदञ्चैव यद्यपि स्वयमर्ज्जितम्। असंभूय सुतान्सर्वान् नदानन्न च विक्रयः”।
“ये जातायेऽप्यजाताश्च ये च गर्भेव्यव-स्थिताः। वृत्तिञ्च तेऽभिकाङ्क्षन्ति न दानन्न च विक्रयः” इत्यादि स्मरणात्। अस्यापवादः
“एकोऽपि स्थावरे कुर्य्या-द्दानाधमनविक्रयम्। आपत्काले कुटुम्बार्थे धर्म्मार्थे चविशेषतः” इति। अस्यार्थः। अप्राप्तव्यवहारेषु दानानु-ज्ञानादावसमर्थेषु वा तथाविधेष्वविभक्तेष्वपि सर्व्वकुटुम्बव्या-पिन्यामापदि तत्पोषणे चावश्यकर्त्तव्ये स्थावरस्य दाना-धमनविक्रयमेकोपि समर्थः कुर्य्यादिति”। यत्तु वचनम्।
“अविभक्ता विभक्तावा सपिण्डाः स्थावरे समाः। एकोह्य-नीशः सर्व्वत्र दानाधमनविक्रये” इति। तदप्यविभक्तेषु द्रव्यस्यमध्यस्थत्वादेकस्यानीश्वरत्वात्सर्व्वाभ्यनुज्ञा अवश्यं कार्य्याविभक्तेषु तु तदुत्तरकालं विभक्ताविभक्तसंशयव्युदासायव्यवहारसौकर्य्याय च सर्वाभ्यनुज्ञानं न पुनरेकस्यानीश्वरत्वेनअतो विभक्तानामनुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्ये-वेति व्याख्येयम्” मिता॰ व्य॰ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वतन्त्र¦ mfn. (-न्त्रः-न्त्रा-न्त्रं)
1. Docile, humble.
2. Dependent, subject. E. अ neg. स्वतन्त्र self-willed.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वतन्त्र [asvatantra], a.

Dependent, subject, not one's own master; अस्वतन्त्रा स्त्री पुरुषप्रधाना; Vasiṣṭha.

Docile, humble, tractable.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वतन्त्र/ अ-स्व--तन्त्र mf( आ)n. not self-willed , dependant , subject Mn. ix , 2 Gaut. BhP.

"https://sa.wiktionary.org/w/index.php?title=अस्वतन्त्र&oldid=213811" इत्यस्माद् प्रतिप्राप्तम्