सामग्री पर जाएँ

अस्वामिविक्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वामिविक्रयः, पुं, (अस्वामिना अनधिकारिणा कृतो विक्रयः ।) अस्वामिकर्तृकविक्रयः । यथा सम्प्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तस्य च लक्षणं नारदेनोक्तं । “निक्षिप्तं वा परद्रव्यं नष्टं लव्ध्वापहृत्य वा । विक्रीयतेऽसमक्षं यत्सज्ञेयोऽस्वामिविक्रयः” ॥ इति तत्र किमित्याह । “स्वयं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते । हीनाद्रहोहीनमूल्ये वेलाहीने च तस्करः” ॥ स्वं आत्मसम्बन्धिद्रव्यं अन्यविक्रीतमस्वांमिविक्रीतं यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामि- विक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ता- हितयोरुपलक्षणार्थं । अस्वामिकृतत्वेन तुल्य- त्वात् । अतएवोक्तं । अस्वामिविक्रयं दत्तमाधिञ्च विनिवर्त्तयेदिति । क्रेतुः पुनरप्रकाशिते गोपिते क्रये दोषो भवति । तथा हीनात्तद्द्रव्यागमो- पायहीनात् । रहसि चैकान्ते सम्भाव्यद्रव्यादपि

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वामिविक्रय¦ पु॰ अस्वामिना कृतो विक्रयः।

१ अस्वामिनाकृते विक्रये

२ तद्विषये व्यवहारभेदे च। यथाह नारदः
“निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वाऽपहृत्य वा। विक्रीयते-ऽसमक्षं यत् सज्ञेयोऽस्वामिविक्रय” इति। तत्र किमि-त्याह या॰
“स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते। हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः”
“स्वमात्मसम्बन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदालभेत गृहणीयात्। अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात्। विक्रीतग्रहणन्दत्ताहितयोरुपलक्षणार्थम् अस्वा-[Page0573-b+ 38] मिकृतत्वेन तुल्यत्वात्। अतएवोक्तम्।
“अस्वामिविक्र-यन्दत्तमाधिञ्च विनिवर्तयेदिति” क्रेतुः पुनरप्रकाशितेगोपिते क्रये दोषो भवति। तथा हीनात्तद्द्रव्यागमो-पायहीनात्। रहसि चैकान्ते सम्भाव्यद्रव्यादपि हीन-मूल्येनाल्पतरेण मूल्येन च क्रवे वेलाहीने वेलयाहीनोवेलाहीनः क्रयोरात्र्यादौ तत्र कृतः क्रेता तस्करोभवति तस्करवत् दण्डभाग्भवतीत्यर्थः। यथोक्तम्।
“द्रव्यमस्वामिविक्रीतम्प्राप्य स्वामी तदाप्नुयात्। प्रकाशक्रयतःशुद्धिः क्रेतुः स्तेयं रहःक्रयादिति” स्वाम्यभियुक्तेनक्रेत्रा किं कर्तव्यमित्यत आह।
“नष्टापहृतमासाद्य हर्तारंग्राहयेन्नरम्। देशकालातिपत्तौ च गृहीत्वा स्वयमर्पंयेत्” या॰ नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रे-तारं ग्राहयेच्चौरोद्धरणकादिभिः आत्मविशुध्यर्थं राजदण्डाप्राप्त्यर्थञ्च।
“अथाविदितदेशान्तरङ्गतः कालान्तरे वा विपन्नंस्तदा मूलसमाहरणाशक्तेर्विक्रेतारमदर्शयित्वैव स्वयमेवतद्धनन्नाष्टिकस्य समर्पयेत् तावतैवासौ शुद्धो भवतीति” श्रीकराचार्य्येण व्याख्यातम्। तदिदमनुपपन्नम्। विक्रेतु-र्द्दर्शनाच्छुद्धिरित्यनेन पौनरुक्त्यप्रसङ्गात्। अतोऽन्यथाव्याख्यायते। नष्टापहृतमिति नाष्टिकम्प्रति अयमुपदेशः। नष्टमपहृतं आत्मीयन्द्रव्यमासाद्य क्रेतृहस्तस्थं ज्ञात्वा तंहर्त्तारं क्रेतारं स्थानपालादिभिर्ग्राहयेत् देशकालातिपत्तौदेशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्विज्ञापनकाला-त्प्राक्ंपलायनाशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत्। ग्राहिते हर्त्तरि किं कर्त्तव्यमित्यत आह।
“विक्रेतुर्दर्शना-च्छुद्धिः स्वामी द्रव्यं नृपोदमम्। क्रेता मूल्यमवाप्नोतितस्माद्यस्तस्य विक्रयी” या॰ यद्यसौ गृहीतः क्रेता न मयेदमप-हृतम् अन्यसकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतुर्विक्रेतदर्शनमात्रेण शुद्धिर्भवति। न पुनरसावभियोज्यः। किन्तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः। यथाह वृहस्पतिः।
“मूले समाहृते क्रेता नाभियोज्यः कथ-ञ्चन। मूलेन सह वादस्तु नाष्टिकस्य विधीयत” इति। तस्मिंश्च विवादे यद्यस्वासिविक्रयनिश्चयो भवतितदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयीविक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वीयं द्रव्यमवा-प्नोति नृपश्चापराधानुरूपन्दण्डं क्रेता च मूल्यमवा-प्नोति। अथासौ देशान्तरङ्गतस्तदा योजनसंख्ययानयनार्थं कालोदेयः।
“प्रकाशं वा क्रयं कुर्य्यान्मूलं वापिसमर्पयेत्। मूलानयनकालश्च देयस्तत्राध्वसंख्ययेति” [Page0574-a+ 38] स्मरणात्। अथाविज्ञातदेशतया मूलमाहर्तुन्न शक्नोतितदा क्रयं शोधयित्वैव शुद्धो भवति।
“असमाहार्यमूलस्तुक्रयमेव विशोधयेदिति” मनुवचनात्। यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलञ्च न प्रदर्शयतितदा स एव दण्डभाग्भवतीति।
“अनुपस्थापयन्मूलं क्रयं-वाप्यविशोधयन्। यथाभियोगन्धनिने धनन्दाप्योदमञ्चस” इति स्मरणात्। स्वं लभेतान्यविक्रीतमित्युक्तम्तल्लिप्सुना किं कर्त्तव्यमित्यत आह।
“आगमेनोपभोगेननष्टम्भाव्यमतोऽन्यथा। पञ्चबन्धोदमस्तस्य राज्ञे तेनाविभाविते” आगमेन रिक्थक्रयादिना उपभोगेन च मदी-यमिदन्द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साधनीयन्तत्स्का-मिना। अतोऽन्यथा तेन खामिना अविभाविते पञ्चबन्धोनष्टद्रव्यस्य पञ्चमांशोदमोनाष्टिकेन राज्ञे देयः। अत्रै-वायं क्रमः। पूर्ब्बं स्वामी नष्टमात्मीयं साधयेत्ततः क्रेता-चौर्य्य परिहारार्थं मूल्यलाभाय च विक्रेतारमानयेत्। अथानेतुन्न शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयि-त्वा द्रव्यं नाष्टिकस्य समर्पयेदिति। तस्करस्य प्रच्छाद-कम्प्रत्याह।
“हृतं प्रनष्टं योद्रव्यम्परहस्तादवाप्नुयात्। अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिम्पणान्” या॰। हृतम्प्रनष्टं वा चौरादिहस्तस्थं द्रव्यम् अनेनमदीयन्द्रव्यमपहृतमितिनृपस्यानिवेद्यैव दर्पादिना योगृह्णात्यसौ षडुत्तरान्न-ववतिम्पणान्दण्डनीयस्तस्करप्रच्छादकत्वेन दुष्टत्वात्। राजपुरुषानीतं प्रत्याह।
“शौल्किकैः स्थानपालैर्व्वानष्टापहृतमाहृतम्। अर्वाक् संवत्सरात्स्वामी हरेतपरतोनृपः” या॰। यदा तु शुल्काधिकारिभिःस्थानरक्षिभिर्वा नष्टमपहृतन्द्रव्यं राजपार्श्वं प्रत्यानीतन्तदा-संवत्सरादर्वाक् प्राप्तश्चेन्नाष्टिकस्तद्द्रव्यमवाप्नुयात्। ऊर्द्ध्वंपुनः संवत्सराद्राजा गृह्णीयात्। स्वपुरुषानीतञ्च द्रव्यंजनसमूहेषूद्घोष्य यावद्वत्सरं राज्ञा रक्षणीयम्। यथाहगोतमः।
“प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रुयुर्विख्याप्यसंवत्सरं राज्ञा रक्ष्यमिति” यत्पुनर्म्मनुनावध्यन्तरमु-क्तम्। प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत्। अर्व्वाक त्र्यब्दाद्ध चेत्स्वामी परतोनृपतिर्हरेत्” इति। तच्छ्रुतवृत्तसम्पन्नब्राह्मणविषयम्। रक्षणनिमित्तं षड्भा-गादिग्रहणञ्च तेनैवोक्तम्।
“आददीताथ षड्भागम्प्रनष्टाघिगतान्नृपः। दशमं द्वादशं वापि सतान्धर्म्ममनुस्मरन्निति”। तृतीयद्वितीयप्रथमवत्सरेषु यथाक्रमंषष्ठादयो भागावेदितव्याः। प्रपञ्चितञ्च तत्पुरस्तात्। [Page0574-b+ 38] सनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषे अपवादमाह।
“पणानेकशफे दद्याच्चतुरःपञ्च मानुषे। महिषोष्ट्रगवांद्वौ द्वौ, पादम्पादमजाविके” या॰। एकशफे अश्वादौ प्राष्टा-धिगते तत्स्वामी राज्ञे रक्षणनिमित्तञ्चतुरःपणान् दद्यात्। मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवांरक्षणनिमित्तम्प्रत्येकं द्वौ द्वौपणौ, अजाविके पुनः प्रत्येकम्पा-दम्प्रादं दद्यादिति सर्वत्रानुषज्यते। अजाविकमिति समास-निर्देशेऽपि पादम्पादमिति वीप्सावलात्प्रत्येकं सम्बन्धोगम्यते” मिता॰॥ प्रायश्चित्त तत्त्वे तु चौराल्लाभविषये विशेषोदर्शितोयथा
“प्रकाशक्रये तु स्वामिनोग्रहणेनारदवृहस्पती। वणि-ग्वीथीपरिगतं विज्ञातं राजपुरुषैः। अविज्ञाताश्रयात्क्रीतं विक्रेता यदि वा मृतः। स्वामी दत्त्वार्द्धमूल्यन्तुप्रगृह्णीत स्वकन्धनम्। अर्द्धं द्वयोरपहृतं तत्र स्यात् व्यव-हारतः। अविज्ञातक्रये दोषस्तथा चापरिपालने। एतत्द्वयं समाख्यातं द्रव्यहानिकरं परम्” इति।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अस्वामिविक्रय¦ m. (-यः) Sale without ownership. E. अ neg. स्वामिन् a master, &c. विक्रय sale.

"https://sa.wiktionary.org/w/index.php?title=अस्वामिविक्रय&oldid=490100" इत्यस्माद् प्रतिप्राप्तम्