अस्वामिविक्रयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्वामिविक्रयः, पुं, (अस्वामिना अनधिकारिणा कृतो विक्रयः ।) अस्वामिकर्तृकविक्रयः । यथा सम्प्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तस्य च लक्षणं नारदेनोक्तं । “निक्षिप्तं वा परद्रव्यं नष्टं लव्ध्वापहृत्य वा । विक्रीयतेऽसमक्षं यत्सज्ञेयोऽस्वामिविक्रयः” ॥ इति तत्र किमित्याह । “स्वयं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते । हीनाद्रहोहीनमूल्ये वेलाहीने च तस्करः” ॥ स्वं आत्मसम्बन्धिद्रव्यं अन्यविक्रीतमस्वांमिविक्रीतं यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामि- विक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ता- हितयोरुपलक्षणार्थं । अस्वामिकृतत्वेन तुल्य- त्वात् । अतएवोक्तं । अस्वामिविक्रयं दत्तमाधिञ्च विनिवर्त्तयेदिति । क्रेतुः पुनरप्रकाशिते गोपिते क्रये दोषो भवति । तथा हीनात्तद्द्रव्यागमो- पायहीनात् । रहसि चैकान्ते सम्भाव्यद्रव्यादपि
