अहङ्कारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहङ्कारः, पुं, (अहमिति ज्ञानं क्रियतेऽनेन । अहं + कृ + घञ् ।) अहङ्कृतिः । तत्पर्य्यायः । गर्व्वः २ अभिमानः ३ इत्यमरः ॥ पुराणमते स त्रि- बिधः । सात्विकः १ राजसः २ तामसश्च ३ । सात्विकाहङ्कारात् इन्द्रियाधिष्ठातारो देवा मनश्च जातं । राजसाहङ्कारात् दशेन्द्रियाणि जातानि । तामसाहङ्कारात् सूक्ष्मपञ्चभूतानि जातानि । वेदा- न्तमते अभिमानात्मिकान्तःकरणवृत्तिः ॥ अह- मित्यभिमानः । स च शरीरादिविषयको मिथ्या- ज्ञानमुच्यते । इति गोतमसूत्रवृत्तिः । “अह- मित्यव्ययं तस्य करणं । अहमिति किरति अत्रेति वा अहङ्कारः । करोतेः किरतेर्व्वा घञ् । कार- प्रत्यय इत्यन्ये” । इत्यभरटीकायां भरतः । मदः ४ स्मयः ५ अपलेपः ६ दर्पः ७ । इति जटाधरः । अहङ्कृतिः ८ उद्ध्वतमनस्कत्वं ९ । मानः १० चित्त- समुन्नतिः ११ । यथा । “गर्व्वोमदोऽभिमानः स्यादहङ्कारस्त्वहङ्कृतिः । स्यादुद्धतमनस्कत्वे मानचित्तसमुन्नतिः ॥ अहङ्कारस्य पर्य्याय इति केचित् प्रचक्षते” ॥ इति शब्दरत्नावली ॥ (अहङ्कारस्याश्रय आत्मा । यथा, भाषापरिच्छेदे । “अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः” । अहङ्कारतत्त्वं । यथाह मनौ, १ । १४ । “मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्” । गर्व्वौन्नत्यम् । यदुक्तं । “अहङ्कारश्च सर्व्वेषां पापवीजममङ्गलम् । ब्रह्माण्डेषु च सर्व्वेषां गर्व्वपर्य्यन्तमुन्नतिः” ॥ स च द्विविधः, विशेषरूपः सामान्यरूपश्चेति । तत्रायमहं एतस्य पुत्र इत्येवं व्यक्तमभि मन्य- मानो विशेषरूपो व्यष्ट्यहङ्कारः । अस्मोत्येता- वन्मात्रमभिमन्यमानः सामान्यरूपः समष्ट्य- हङ्कारः । स च हिरण्यगर्भो महान् आत्मेति च सर्व्वानुस्यूतत्वादुच्यते । अहमभिमानरूपो यो- ऽहङ्कारः स सर्व्वसाधारणः । आरोपितगुणै- रात्मनो महत्वाभिमानः । अहमेव श्रेष्ठ इति दुरभिमानः । महाकूलप्रसूतोऽहं महतां शिष्यो नास्ति द्वितीयो मत्सम इत्यभिमानः । आत्मश्ला- घनाभावेऽपि मनसि प्रादुर्भूतोऽहं सर्व्वोत्कृष्ट- इति गर्व्वः ।)
