सामग्री पर जाएँ

अहर्ज्जरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अहर्ज्जरः, पुं, (अहोभिर्लोकान् जरयति । अहन् + जॄ + णिच + अच् । यद्वा अहानि जीर्य्यन्त्य- न्तर्भवन्त्यस्मिन् । अहन् + जॄ + अच् ।) संवत्सरः । यथा । “यथापः प्रवता यन्ति यथा मासा अह- र्ज्जरं । एवं मां ब्रह्मचारिणः धातरायन्तु सर्व्वतः स्वाहा” । इति तैत्तिरीयोपनिषदि शिक्षावल्ली ॥ यथा लोके आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति । यथा वा मासा अहर्ज्जरं संवत्सरोऽहर्ज्जरोऽहोभिः परिवर्त्तमानो लोकान् जरयतीति अहानि वा अस्मिन् जीर्य्यन्ति अन्त- र्भवन्ति इत्यहर्ज्जरः । तञ्च यथा मासा यन्ति एवं मां ब्रह्मचारिणः हे धातः सर्व्वस्य विधातः मामायन्तु सर्व्वतः सर्व्वदिग्भ्यः । इति शङ्करा- चार्य्यकृतभाष्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=अहर्ज्जरः&oldid=114909" इत्यस्माद् प्रतिप्राप्तम्