सामग्री पर जाएँ

अहिजित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अहिजित्, पुं, (अहिं सर्पं वृत्रासुरं वा जितवान् अहि + जि + क्विप् ।) विष्णुः । कालीयनाग- दमनात् ॥ इन्द्रः । वृत्रासुरनाशात् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अहिजित्¦ पु॰ अहिं सर्पं वृत्तासुरं वा जितवान् जि--क्विप्तुक् च।

१ कृष्णे,

२ इन्द्रे च। तत्र कृष्णस्य कालि-यदमनात्तथात्वम् तत्कथा हरि॰

६९ अ॰।
“कृष्ण कृष्ण!महावाहो! गोपानां नन्दिवर्द्धन!। दम्यतामेष वै क्षिप्रंसर्पराजो विषायुधः। इमे नो बान्धवास्तात! त्वां मत्वामानुषं विभो!। परिदेवन्ति करुणं सर्वे मानुषबुद्धयः। तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम्। विक्रीड्याऽस्फोटयन् बाहू भित्त्वा तं भोगबन्धनम्। तस्यपद्भ्यां समाक्रम्य भोगराशिं जलोत्थितम्। शिरस्सु कृष्णोजग्राह स्वहस्तेनावनाम्य च। तस्यारुरोह सहसा मध्यमं तन्महच्छिरः। सोऽस्य मूर्द्ध्निस्थितः कृष्णः ननर्त्त रुचि-राङ्गदः। मृद्यमानः स कृष्णेन श्रान्तमूर्द्ध्वा भुजङ्गमः”। इति। इन्द्रस्य वृत्रासुरजयकथा भाग॰

६ स्कन्धे

९ अ॰
“अथेन्द्रो वज्रमृद्यस्य निर्म्मितं विश्वकर्म्मणा। मुनेः[Page0584-b+ 38] शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्” इत्युपक्रम्य इन्द्रवृत्रा-सुरयुद्धं वर्ण्णयित्वा
“भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्यबलभिद्विभुः उच्चकर्त्त शिरः शक्रोगिरिशृङ्गमिवोजसा” इत्युक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अहिजित्¦ m. (-जित्)
1. A name of KRISHNA.
2. Also of INDRA. E. अहि and जित् who conquers, from जि with क्विप् affix; subduing a demon in the form of a snake.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अहिजित्/ अहि--जित् m. " conquering the serpent " , N. of कृष्णL.

अहिजित्/ अहि--जित् m. of इन्द्रL.

"https://sa.wiktionary.org/w/index.php?title=अहिजित्&oldid=490157" इत्यस्माद् प्रतिप्राप्तम्