अहितः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहितः, त्रि, (न हितः । नञ्समासः ।) शत्रुः । इत्यमरः । (यथा रघुवंशे ४ । २८ ॥ “स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा । अहिताननिलोद्धुतैस्तर्जयन्निव केतुभिः” ।) अपथ्यं इति शब्दचन्द्रिका ॥ (“एकान्ताहितानि दहनपचनमारणादिषु प्रवृ- त्तान्यग्निक्षारविषादीनि ।” इति सुश्रुते । प्रतिकूलः । अशुभकरः । यथा वैराग्यशतकं । “लोकस्तथाप्यहितमाचरतीति चित्रम्” । ३५ ॥ “परोऽपि हितवान् शत्रुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधं” ॥ इति हितोपदेशः । अहिताहारोपयोगिनां पुनः कार- णतो न सद्यो दोषवान् भवत्यपचारः, नहि सर्व्वाण्यपथ्यानि तुल्यदोषाणि न च सर्व्वे दोषा- स्तुल्यबलाः । नच सर्व्वाणि शरीराणि व्याधि- क्षमत्वे समर्थानि । तदेव ह्यपथ्यं देशकालसंयोग- वीर्य्यप्रमाणातियोगात् भूयस्तरमपथ्यं सम्पद्यते ॥ स एव दोषः संसृष्टयोर्निर्विरुद्धोपक्रमो गम्भो- रानुगतः प्राणायतनसमुत्थो मर्म्मोपघाती वा भूयान् कष्टतमः क्षिप्रकारितमश्च सम्पद्यते इति चरकः । “इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगत- श्चैकान्तहितान्येकान्ताहितानि हिताहितानि भवन्ति” । “एकान्ताहितानि दहनपचनमारणा दिषु प्रवृत्तान्यग्निक्षारविषादीनि ।” “दुग्धस्यैकान्तहिततां विषस्यैकान्ततोऽहि तं एवं युक्तरसाद्येषु द्रव्येषु सलिलादिषु ॥ एकान्तहिततां विद्धि वत्स ! सुश्रुत ! नान्यथा” ॥ “विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः । तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितं” ॥ इति सुश्रुतः ॥)
