सामग्री पर जाएँ

अहिपूतनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अहिपूतनः, पुं, क्षुद्ररोगविशेषः । तल्लक्षणं यथा, -- “शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् । स्विन्ने वा स्वाप्यमानस्य कण्डूरक्तकफोद्भवा ॥ कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनं” ॥ * ॥ तच्चिकित्सा यथा भावप्रकाशे, -- “तत्र संशोधनैः पूर्ब्बं धात्रीस्तन्यं विशोधयेत् । त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितं ॥ शङ्खसौवीरयष्ठ्याह्वैर्लेपः कार्य्योऽहिपूतने” । इति (रुग्विनिश्चयटीकाकृता विजयेन व्याख्याप्रसङ्गतो भोजवचनं यदाहृतं तद्यथा, -- यदुक्तं । “दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन च । कण्डूदाहरुजावद्भिः पिडकैश्च समाचितः ॥ अहिपूतनः सम्भवति यथादोषञ्च दारुणः” ॥ इति सनिदानलक्षणसम्प्राप्तिकं चिकित्सितं वाभ- टेन वा यदुक्तं तद्यथा, -- “मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः । ताम्रोव्रणोऽन्तःकण्डूमान् जायते भूर्य्युपद्रवः ॥ केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनं । प्रष्टारुर्गुदकुन्दञ्च केचिच्च तमनामिकं” ॥ * ॥ चिकित्सा । “तत्र धात्र्याः पयःशोध्यं पित्तश्लेष्महरौषधैः । १ शृतशीतञ्च शीताम्बु-युक्तमन्तरपानकं ॥ २ सक्षौद्रतार्क्ष्यशौलेन व्रणं तेन च लेपयेत् । ३ त्रिफलावदरीप्लक्षत्वक्-क्वाथ-परिषेचितं ॥ ४ कासीश-रोचना-तुत्थ-मनोह्वालरसाञ्जनैः । ५ लेपयेदम्लपिर्ष्टैर्वा चूर्णितैर्वावचूर्णयेत् ॥ ६ सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः । ७ सारिवाशङ्खनाभिभ्यामशनस्य त्वचोऽथवा” ॥ ८ ॥ * ॥ चक्रपाणिसंग्रहे तु ॥ “पटोलपत्रत्रिफलारसाञ्जनविपाचितं । पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनां” ॥ पटोलाद्यघृतं ॥ * ॥)

"https://sa.wiktionary.org/w/index.php?title=अहिपूतनः&oldid=114951" इत्यस्माद् प्रतिप्राप्तम्